________________
शिवभद्रकृतम्
२५
?
दुःसहम्। तथा समयं कालं वा अवधिकृतम् । कीदृशम् ? गतम् अतिक्रान्तम् । न अवैति । कथंभूतो वानरश्वा मत्तः प्रमादी । केने ? उपभोगमधुना विषयानुभवनमद्येन । किं कृत्वा ? अधिगम्य प्राप्य । काम् ? श्रियं लक्ष्मीम् । कस्मात् ? । मत्तः मत्सकाशात् । क्व ? अधुना इदानीमेव || ३७॥
पु० ॥ किं च अयं वानरश्वा कपिकुक्कुरः इमं प्रत्यक्षम् अपि वर्तमानः श्वासमयं विश्वासप्रचुरं रोगं न अवैति न जानाति समयं वर्षांरात्रं च गतम् अतीतं नावैति । अधुना साम्प्रतं दुष्करं यथा स्यात् श्रियं राजलक्ष्मीं मत्तः मत्सकाशात् अधिगम्य प्राप्य उपभोगमधुना सम्भोगरूपेण मधेन मत्तः हृष्टः इति अज्ञानहेतुः । मत्तः हि किञ्चिद् अपि न चिन्तयते । वानरश्वा इति " कुत्सितानि कुत्सनैः " [पा. २, १. ५३] इति समासः ||३७||
विसृजन्नहम तया प्रियया रहितः क्ा तिष्ठतीत्यश्रुतया । नलिनमवश्यायेन प्लुतमिव सीदामि तनुरवश्या येन ॥ ३८ ॥
शां० । विसृ० येन कारणेन " तनुः " शरीर अवश्या अस्वस्था' मम तेन कारणेन सीदामि विषण्णः अस्मि शीर्णवान् । कम् इव ? नलिनमिव पद्मवत् । कीदृशम् ? प्लुतं व्याप्तम् । केन ! अवश्यायेन । किं कुर्वन् अहम् ? विसृजन् मुञ्चन् । किं तद् ? अश्रु नेत्रवारि । कथंभूतः अहम् ' रहितः हीनः । कया ? तया प्रियया सीतया । कीदृश्या ? अश्रुतया अनाकर्णितया । कथम् ? क्व तिष्ठति इति कस्मिन् देशे आस्ते इति ॥ ३८ ॥
पु० किं वा अहं तया प्रियया सीतया रहितः अश्रु बाष्पं विमुञ्चन सीदामि अद्य येन अवसादेन तनुः गात्रम् अपि अवश्या अनायत्ता । किम् इव अवश्यायेन हिमेन प्लुतं नलिनम् इव । कीदृश्या ! प्रियया । क तिष्ठति इति अश्रुतया अनाकर्णितया अश्रुतवार्तया । नलिनम् इति उपमायां लिङ्गभेदः न दूषणम् । मावि - टलिङ्गत्वात् । यथा विद्या धनमिव अर्जिता इति । अवश्या इति वशं न गता अवश्या वशं गत इति यत्प्रत्ययेन समासः ||३८||
१. म० 'केनेति' ।
२. म० ' अवस्था
३. म० प्रतौ नास्ति ।
४