________________
शिवभद्रकृतम् युवतिसमायोगेऽहं रत इति न जहाति यः समायो गेहम् ॥२॥ बाणेस्य मदस्तस्य स्पर्शन विनाशमेष्यति मदस्तस्य ॥३९॥
शां०॥ युव । तस्य सुग्रीवस्य मदः अपि विनाशम् एष्यति गमिष्यति । केन ! स्पर्शेन मङगेन । कस्य ? बाणस्य शरस्य । कीदशस्य ? 'मदस्तस्यै मयाक्षिप्तस्य । यो न जहाति न मुञ्चति । किं तत् ? गेहम् ! गृहम् । कीदृशः ? समायः । वचनरतः वचनभनः नः । कथं युवतिसमायोगे स्त्रीसंपर्के अहम् रतः मासक्तः इति हेतोः ॥३९॥
पु० । यस्य सुग्रीवस्य मदः दर्पः मदस्तस्य मया अस्तस्य क्षिप्तस्य बाणस्य स्पर्शेन विनाशं भ्रंशम् एष्यति प्रणश्यति तस्य । कस्य ? यः सुग्रीवः समायो मायावी गेहं गृहं न जहाति । कुतः युवतीनां समायोगे संगमे रतः अहमिति ॥३९॥
परुपं वद सौमित्रे भावं न करोति साधुवदसौ मित्रे । व्रज मतिमन्नवधौ तं स्खलितं शरदाभिवीक्ष्य खं नवधौतम् ॥४०॥
शां० । व्रज०। हे सौमित्रे ! लक्ष्मण ! कीदृशः ? मतिमान् बुद्धियुक्तः । ब्रज गच्छ । किं करोमि ? यद ब्रूहि । कथं परुषं निष्ठुरम् । कम् ? तं सुग्रीवम् । कीदृशम् ! स्खलितम् च्युतम् । क ? अवधौ मर्यादायाम् विषये । किं कृत्वा ? अभिवीक्ष्य अवलोक्य । किं तत् ? खम् आकाशं नवधीतं प्रत्यग्रनिर्मलम् । कया कृत्वा ? शरदा शरत्कालेन । यतः असौ सुग्रोवः भावं चित्ताभिप्रायं न करोति । कस्मिन् ? मित्रे मयि । कः इव ? साधुवत् शिष्टः "इव" ॥४०॥
पु०। यत एवं तस्मात् हे मतिमन् ! सुबुद्धे ! सौमित्रे ! लक्ष्मण ! व्रज गच्छ गत्वा च तं सुप्रीवं परुषं वद् निष्ठुरं ब्रूहि । यतः सः [असौ] सुग्रीवः मित्रे सुहृदि मयि साधु
१. समायोगे अहम् भथवा समायो गेहम् । २. म० मास्ति । ३. म० समयो पंचनपरः । १. क्षा० नास्ति । ५. क्षा० नास्ति । ६. यद सौमित्र अथवा साधुवद् असौ मित्रे । ७. शा० 'मतिमत ८, क्षा० नास्ति । ९. क्षा० "चत्तं'। १०. म. साधु इव । ११. म० नास्ति ।