________________
शिवभद्रकाव्यम् भाव सावर्डमभिपायं न करोति । कीदृशम् ? तम् अवधौ स्खलितं परिभापिनमर्यादायाः स्खलिनम् अपराद्धम् । किं कृत्वा ? खम् अकाशं नवधीतं सद्योनिमलीकृतम् अभिवीक्ष्य दृष्ट्वा अपि । साधुवदिति तदहति' पा.५.१.११७] इति वतिः ॥४०॥ नित्यमुखिन् नाशं सा वृष्टिर्याता वयं मुखिन्नाऽऽशमाः। चन्द्रमपश्याम ! त्वं नावैपि गताश्च कथमापः श्यामन्यम् ॥११॥
शां० । नित्य० ॥ हे नित्यमुखिन् ! सदा मुवामझ ! वृष्टिः वर्षा नाशम् अभावं याता प्राप्ता । वयं चन्द्र शशिनं अपश्याम दृष्टवन्तः । कोहगाः सन्तः ! सुखिन्नाशंसा अतीवगतमनोरथाः । त्वं च कथं न अवैपि न जानासि । काः आपः पानीयानि । कथंभूताः १ गताः प्राप्ताः । कि तत् ! श्यामत्वं श्यामलताम् ॥४१॥
पु० । किं च हे नित्यसुखिन् ! अभोक्ष्णं मुखिन् ! वृष्टिः नाशं याता गता । वयं च सुखिन्ना आशंसा येषां ते चन्द्रम् आश्याम दृष्टवन्तः वं अपश्याम अपगतकामनि(लिमन् !) दुर्दिनसमयं कथं ना वैषि] ...॥४१॥ विधने खे दम्भवत कथमेष्यति वा मनोऽध खेदं भवतः । अविरत ! शरदापि तया प्रियया रमसे मयैकशरदापितया ॥ ४२॥
शां० । विध० ॥ वा अथवा । कथम् एष्यति । ममिष्यति । अध अधुना । कम् ? खेदं क्लेशम् । किं तत् ? मनः चित्तम् । कस्य ? दम्भवतः मायाविनः । क सति ? खे आकाशे । विधने धनरहिते । हे अविरत ! अनुपशान्त । सुग्रीव ! यतो रमसे क्रीडसे । कया ? प्रियया ? भार्यया तया तारया । कया कृत्वा ? शरदा अपि न केवलं प्रावृपा । कोदृश्या प्रियथा ? मया एकशरदापितया एकबाणसमर्पितया ? मैदेकशरदापितया ॥४२॥
पु० किं कृत्वा परुष वक्तव्यम् इति चेत् तद् आह । हे सुग्रीव ! खे विघने] त्र्यभ्रे निर्मेधे । गतायामपि प्रावृषि दम्भवतः मायाविनः भवतः तव मनः कथं
खेदं श्रान्तिम् एष्यति । दाम्भिकत्वात् तव मनो न खेत्स्यते इत्यर्थः । अपि च उया तारानाम्न्या प्रियया सह रमसे । सा कीदृशी ? या रतेन संभोगेन रहिता वेरता न विरता अविरता शरदि(द्) यस्याः तया रतव्यापारण एवं नीयमानशरदा इत्यर्थः । तथा मया एवं एकेन शरेण दापितया साधितया ॥४२॥
१. "तदहम्" [पा. ५. १. ११७] २. म० नास्ति ।