________________
છૂટ
शिवभद्रकृतम्
विवृणोत्यवतंसमयं कालचन्द्रापदेशमवतं समयम् । मागास्त्वं पतितनयस्तं देशं यं जगाम सुरपतितनयः ॥ ॥४३॥
शां० । वि० । विवृणोति प्रकाशयति । कः असौ ? अयं कालः शरत्कालः कम् ? अवतंसं शेखरम्' । कीदृशम् ? चन्द्रापदेश शशिछद्मानम् । अतः अव तं रक्षतम् समयं तमवधम् । सुग्रीव मा गाः मा गच्छ त्वम् । कीदृशः पतितनयः गतनीतिः । कम् तं देशं यं जगाम गतवान् । कः असौ सुरपतितनयः इन्द्रसूनुः वालिः इत्यर्थः । ४३ ॥
पु० । अयं कालः शरद्रूपः चन्द्रापदेशं चन्द्रयाजं अवतंसं शेखरं विवृणोति । अतः तं समयं मया सह कृतां संविदम् अब । अरक्षणे दण्डमाह । सुरपतितनयः इन्द्रपुत्रः वाली यं देशं जगाम तम् मा गाः परलोपः (कं) मा गमः । संविल्लङ्घने त्वमपि घातिष्यसे इत्यर्थः । यतः पतितः नयः नोतिः संवित्पालनं यस्य ॥ ४२ ॥
वाक्यं मानवदेवं निगदन्तं लक्ष्मणोऽथ मानवदेवम् । ऊंचे वासवसत्त्वं स्वस्थ इहैको गुणाधिवास वस त्वम् ॥ ॥४४॥
शां०। वाक्य० । अथ अनन्तरम् । लक्ष्मणो मानवदेवं राममूचे उक्तवान् । किं कुर्वन्तम् इदं निगदन्तं ब्रुवन्तम् । किं तत् वाक्यं स्ववचनम् । कीदृशं मानवत् साहंकारम् । कथम् ? एवम् उक्तप्रकारेण । कीदृशम् ? मानवदेवं बासवसत्त्वं इन्द्रसमसत्त्वम्' किं ऊचे ? हे गुणाधिवास ! शौर्यादिगुणनिवास ! "वस त्वं तिष्ठ त्वं कीदृशः ? स्वस्थः निरुद्विग्नः इह गिरौ । कीदृश एव ? एक: अद्वितीयः ||४४||
६
ی
पु० 1 अथ अनन्तरं लक्ष्मणः मानवदेवं मनुष्यदेवं रामम् ऊचे बभाषे । कीदृशम् ! एवमुक्तरीत्या मानवत् चित्तसमुन्नतियुक्तं प्रामाणिकं वा वाक्यं निगदतं तथा वासवसत्त्वं इन्द्र समसत्वं तुल्यसत्त्वं आपदि अविकार सत्त्वम् । किम् ऊचे ? हे गुणाधिवास ! गाम्भीर्यादिगुणनित्र्य ! इह त्वमेकः स्वस्थः निश्चितः वस । अहं सुग्रीवम् उपालब्धुं गमिष्यामि इति अतः आह || ४४ ॥
१. म० "अवतं संशेखरं "
४. म० " तामवधि”
२. म० "चन्द्रपदेशं "
५. म० "इन्द्रमत्त्वं ॥ ४४ ॥
३. म० "चन्द्रझानं "
६. म० "शौर्याद्वितीय" ।
७-७ म० प्रतौ नास्ति तत्स्थाने म० प्रतौ इह अस्मिन् स्थाने स्वस्थः सन् त्वमेको
वसति" अस्ति ।