________________
शिवभद्रकाव्यम्
समये गते धनानां पातितवारीणां योऽप्रतिपत्त्या प्राणान् पाति तवारीणाम् । न विगणितः शशितिलको यामिन्या येन परुषाणि तमभिधातुं यामि न्यायेन ।।
शां०। सम० तं सुग्रीवम् । अभिधातुं वक्तुम् । कानि ? परुषाणि निष्ठुराणि वचनानीति गम्यते । यामि अहं गच्छामि । यः पाति परिरक्षति कान् प्राणान् असून । केषाम् ? तब भवतः अरीणां' शत्रूणाम् । कया कृत्वा ? अप्रतिपत्त्या अनुधमेन कार्यस्य अनारम्भेण वा । तथा येन न गणितः । कः असौ शशितिलकः चन्द्रविशेषकः । कस्याः ! यामिन्याः रात्रेः । क सति ! समये काले गते अतिकान्ते । केषाम् ? मेधानाम् । कीदृशानाम् पातितवारीणां मुक्तजलानाम् । केन अभिधातुम् 'यामि ? न्यायेन नीत्या ॥४५॥
पु०॥ तं सुग्रीव न्यायेन युक्त्या परुषाणि अभिधातुं वक्तुं यामि गमिष्यामि । तं कम् ? यः सुग्रीवः घनानां समये काले गते अपि अप्रतिपत्त्या मूढत्वेन तव अरीणां राक्षसानां प्राणान् पाति रक्षति तन्मारणेनापि(णेऽपि) विलम्ब करोति इत्यर्थः । कीदृशानां धनानाम् ! पातितवारीणां निर्मुक्तपानीयानाम् किं च येन सुग्रीवेण यामिन्या शशितिलक चन्द्रः एव तिलक न गणितः न विचारितः । प्रवृत्ता शरद् न पर्यालोचिता इति अर्थः ॥४५॥ ताराभरणेप्यधुना खेदयिता मत्तो वधमर्हति भवतोऽसौ खे दयितामत्तः । क्रियते प्रत्युपकारः कदा शयानेन मिथ्या विलोभितस्त्वं कदाशयानेन ॥४६॥
शां०। तारा०। असौ सुग्रीवः भवतः तव खेदयिता क्लेशयिता । मत्तः मत्सकाशात् वध नाशमहति । कीदृशः दयितामत्तः प्रियागर्वितः । कस्मिन् स्वे आकाशे सति । कीदृशे ? ताराभरणे तारकाविभूषणे। अधुना अपि न केवलं वर्षीकाले इत्यपि शब्दार्थः । प्रत्युपकारः कदा कस्मिन् काले क्रियते विधीयते । केन ? शयानेन अजाग्रता अनुद्यमवता-इत्यर्थः । हे राम मिथ्या अलीकम् । त्वं
१. म0 "भवारीणां"। २-२. क्षा. नास्ति । ३. क्षा० "नियगर्वितः १. क्षा० "प्रत्युपकाराच" ५. म० 'भास्ति