________________
शिवभद्रकृतम्
विलोभितः विप्रतारितः । केन ? अनेन सुग्रोवेण । कया कृत्वा ? कदाशया कुत्सिताया शोकवाञ्छया वा ॥ ४६ ॥
३०
पु०। किं च असौ सुग्रीवः मत्तः मत्सकाशात् वधमर्हति । यतः भवतः खेदयिता खेदकारी । कथम् ? व्योम्नि ताराभरणे नक्षत्रभूपिते अपि अधुना शरदि सः दयितामत्तः वल्लभाभिहृष्टः । अनेन सुग्रीवेण शयानेन अलसेन कदा प्रत्युपकारः क्रियते । स्वत्कृतोपकारनिष्क्रयः कदाचित् अपि न करिष्यते इत्यर्थः । अतः त्व कदाशया असौ प्रत्युपकरिष्यते इति दुराशया मिथ्या प्रलोभितः वञ्चितः । क्रियते इति "विभाषा कदाकर्यो : " [पा. ३.३.५ ] इति भविष्यति लट् । कदाशया इति "कोः कत्तत्पुरुपेsचि" [पा.६.३.२०१] नातिर्क ( इति कद्भावः । ४६ ।
न स्मरति किं त्वदीरितशरभासुरतानां अटवीषु वोग्रे केसरिथरभासु रतानाम् । अथवा अन्तकस्य सृष्टया निशातदन्तस्य प्राप्ता बोधाय शरन्निशा तदन्तस्य ॥
शां० । नस्मर० । किं न स्मरति चिन्तयति सुग्रीवः । केषाम् ? त्वदीरितशरभाचरतानाम् भवत्क्षिप्तबाणदीप्तिनां कर्मणि षष्ठी । तथा रतानाम् आसक्तानाम् । कासु ? अटवीषु भरण्येषु । कीदृशीषु : उग्रकेसरिशरभासु भयानकसिंहशरभा । किं न स्मरति । अथवा यद् वा प्राप्ता गता । का असौ ? शरन्निशा शरत्कालरात्रिः । किमर्थम् ? बोधाय अवगमार्थम् । कस्य : [ तदन्तस्य ] सुग्रीवविनाशस्य । अत्र अपि कर्मणि षष्ठी । कया ? सृष्ट्या सर्गेण । कस्य ? अन्तकस्य यमस्य । कीदृशस्य ? निशातदन्तस्य तीक्ष्णदशनस्य ॥४७॥
पु० ॥ किं च त्वदीरितशराणां त्वत्क्षिप्तकाण्डानां या भासुरता दीप्तयः ताः सः न स्मरति किम् । कीदृशानाम् ? अटवीषु ये उग्रा: केसरिणः सिंहाः शरभाः अष्टापदाः तेषाम् अपु रतानाम् अनुरक्तानाम् तत्प्राणानाम् इति अर्थः । अथवा किं बहुना उक्तेन ? निशातदन्तस्य तीक्ष्णदशनस्य अन्तकस्य यमस्य । बोधाय प्रवस्य मृत्युं ज्ञापयितुं शरन्निशा शरद् एव निशा रात्रिः दिष्ट्या प्राप्ता
१. क्षा० 'कुत्सितवान्या'
२. म० 'रौद्र' इति पाठः स्वीकृतः ।
३-३. म० नास्ति ।
४. म० नास्ति ।
५. म० " निशितस्य' ।
६. म० 'तीक्ष्णदन्तस्य' ।