________________
शिवभद्रकाव्यम्
दिष्टचा इति आनन्दे अव्ययम् । वोधाय इति ण्यन्तात् भाववचनः [भाववचनाश्व पा. ३ - ३-११] इति घञ् । "तुमथ च्चि "" इति चतुर्थी* ॥४७॥ इत्युक्तवान् विसृष्टो विशेषकान्तेन ज्येष्ठेनारिप्रमदाविशेषकान्तेन । रविसुतमभिसर्तुमनाः सन्नागमनं तं हरिरिव हरिमधिशयितं सन्नागमनन्तम् ॥
शां०॥ इत्यु० । ज्येष्ठेन रामेण लक्ष्मणः विसृष्टः प्रेषितः । कीदृशः सन् ? उक्तवान् । किम् इति पूर्वोक्तम् । कीदृशेन ? विशेषकान्तेन अतिशयकमनीयेन । तथा अरिप्रमदाविशेषकान्तेन शत्रुसीमन्तिनीतिलकनाशकेनै । कीदृशः लक्ष्मणः ! अभिसर्तुमनाः गन्तुमनाः । कम् ? रविस्रुतं सुग्रीवम् । कीदृशम् ? सन्नागमनं संजातागमनङ्ग' विलम्बितयातम् । कः इव हरिः इन्द्रः इव । यथा इन्द्रः हरिं विष्णुम् अभिसरति कीदृशे विष्णुम् ? अधिशयितम् । कम् ? सन्नागम् किमभिधेयम् ? अनन्तं शेषम् ॥४८॥
इति श्वेताम्बर श्री शान्तिसूरिविरचितायां शिवभद्र काव्यवृत्तौ प्रथमः आश्वासकः ॥
पु० || इति उक्त ० इत्थम् उक्तवान् लक्ष्मण: ज्येष्ठेन रामेण विसृष्टः प्रस्थापितः । कीदशेन ? विशेषकान्तेन अतिशय रमणीयेन तथा अरिप्रमदानां शत्रुस्त्रीणां यः विशेषकः तेषाम् अन्तेन नाशकेन शत्रुस्त्री वैधव्यकारिणा इत्यर्थः । कीदृक् लक्ष्मणः तं रविसुतं सुग्रीवं अभिसर्तुमनाः अभिगन्तुम् अभिलाषुकः । कीदृशं तम् ? सन्नागमनं विलम्बितम् आगमनं यस्य तम् । हरिः विष्णुः फणी इव अभिसर्तुं गन्तुं मनः अस्य इति चत्राहिः । काममनसः अपि (सोरपि ) इति मलोपः ॥ ४८ ॥
इति प्रथमः आश्वासः ||
१. तुमर्थाच्च भाववचनात् (पा. २.३.१५ ) २. पु० 'सप्तमी' इति पाठः ।
३१
३ क्षा० "शत्रुविलासिनी तिलकनाशेन' ।
४. म० नास्ति ।
५. म० नास्ति ।
६. क्षा० " तमनन्तसंज्ञम्' ।