Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजैनग्रंथमालायांयदि स पुदलद्रव्यीभूतो जीवत्वमानताभिसरत् ।
तच्छतो वक्तुं यन्ममेदं पुरलं द्रव्यं ॥३०॥ तात्पर्यटचिः-अण्णाणेत्यादिव्याख्यानं क्रियते अण्णाणमोहिदमदी अज्ञानमोहितमतिः मन्ममिणं भणदि पुग्गळं दव्यं ममेदं भणति पुद्गलं द्रव्यं । कथं भूतं बदमबद्धं च बद्धं संबंधदेहरूपं अबद्धं च असंबंध देहाद्भिन्नं पुत्रकलत्रादि तहा तथा जीवे जीवद्रव्ये बहुभावसंजुत्ते मिथ्यात्वरागादि बहुभावसंयुक्ते । अज्ञानी जीवो देहपुत्रकलत्रादिकं परद्रव्यं ममेदं भणतीत्यर्थः । इति प्रथमगाथा गता । अथास्य बहिरात्मनः संबोधनं क्रियते रे दुरात्मन् सबण्हु इत्यादि सब्बण्हुणाणदिहो सर्वज्ञज्ञानदृष्टः जीवो जीवपदार्थः कथंभूतो दृष्टः उवओगलक्खणो केवलज्ञानदर्शनोपयोगलक्षणः णिच्चं नित्यं सर्वकालं। कह कथं सो स जीवः पुग्गलदव्वीभूदो पुद्गलद्रव्यं जातः न कथमपि जं येन कारणेन भणसि भणसि त्वं मज्झमिणं ममेदं पुद्गलद्रव्यं। इति द्वितीया गाथा गता।जदि इत्यादि-जदि यदि चेत् सो स जीवः पुग्गलदवीभूदो पुद्गलद्रव्यजातः जीवो जीवः जीवत्तं जीवत्वं आगदं आगतं प्राप्तं इदरं इतरत् शरीरपुद्गलद्रव्यं तो सक्का वुत्तुं ततः शक्यं वक्तुं जे अहो अथवा यस्मात्कारणात् मज्झमिणं पुग्गलं दव्वं ममेदं पुद्गलद्रव्यमिति । नचैवं यथा वर्षासु लवणमुदकी ग्रीष्मकाले जलं लवणीभवति । तथा यदि चैतन्यं विहाय जीवद्रव्यं पुद्गलद्रव्यस्वरूपेण परिणमति पुद्गलद्रव्यं च मूर्त्तत्वमचेतनत्वं विहाय चिद्रूपं चामूर्तत्वं च भवति तदा भवदीयवचनं सत्यं भवति । रे दुरात्मन् न च तथा, प्रत्यक्षविरोधात् । ततो जीवद्रव्यं देहाद्विन्नममूर्त शुद्धबुद्धैकस्वभावं सिद्धमिति । एवं देहात्मनोर्भेदज्ञानं ज्ञात्वा मोहोदयोत्पन्न समस्तंविकल्पजालं त्यक्त्वा निर्विकारचैतन्यचमत्कारमात्रे निजपरामात्मतत्त्वे भावना कर्त्तव्येति तात्पर्य । इत्यप्रतिबुद्धसंबोधनार्थं पंचमस्थले गाथात्रयं गतं ।।
अथ पूर्वपक्षपरिहाररूपेण गाथाष्टकं कथ्यते तत्रैकगाथायां पूर्वपक्षः गाथाचतुष्टये निश्चयव्यवहारसमर्थनरूपेण परिहारः । गाथात्रये निश्चयस्तुतिरूपेण परिहार इति षष्ठस्थले समुदायपातानका । तद्यथाप्रथमतस्तावत् यदि जीवशरीरयोरेकत्वं न भवति तदा तीर्थकराचार्यस्तुतिवृथा भवतीत्यप्रतिबुद्धशिष्यः पूर्वपक्षं करोति__आत्मख्यातिः-युगपदनेकविधस्य बंधनोपाधेः सन्निधानेन प्रधावितानामस्वभावभावानां संयोगवशाद्विशेषाश्रयोपरक्तः स्फटिकोपल इवात्यंततिरोहितस्वभावभावतया अस्तमितसमस्तविवेकज्योतिर्महता स्वयमज्ञानेन विमोहितहृदयो भेदमकृत्वा तानेवास्वभावभावान् स्वीकुर्वाणः पुद्गलद्रव्यं ममेदमित्यनुभवति किलाप्रतिवुद्धो जीवः । अथायमेव प्रतिवोध्यते रे दुरात्मन् आत्मपंसन् जहीहि जहीहि परमाविवेकघस्मरसतृणाभ्यवहारित्वं । दूरनिरस्तसमस्तसंदेहविपर्यासानध्यवसायेन विश्वकज्योतिषा सर्वज्ञज्ञानेन स्फुर्टाकृतं किल नित्योपयोगलक्षणं जीवद्रव्यं । तत्कथं पुद्गलद्रव्यीभूतं येन पुद्गलद्रव्यं ममेदमित्यनुभवसि । यतो यदि कथंचनापि जीवद्रव्यं पुद्गलद्रव्यीभूतं स्यात् । पुद्गलद्रव्यं च जीवद्रव्यीभूतं स्यात् तदैव लवणस्योदकमिव ममेदं पुद्गलद्रव्यमित्यनुभूतिः किल घटेत तत्तु न कथंचनापि स्यात् तथा हि-यथा क्षारत्वलक्षणं लवणमुदकीभवत् द्रवत्वलक्षणमुदकं च लवणीभवत् क्षारत्वद्रवत्वसहवृत्त्यविरोधादनुभूयते न तथा नित्योपयोगलक्षणं जीवद्रव्यं पुद्गलद्रव्यीभवत् नित्यानुपयोगलक्षणं पुद्गलद्रव्यं च जीवद्रव्यीभवत् उपयोगानुपयोगयोः प्रकाशतमसोरिव सहवृत्तिविरोधादनुभूयते । तत्सर्वथा प्रसीद विबुध्य स्वद्रव्यं ममेदमित्यनुभव ।
अयि कथमपि मृत्वा तत्त्वकौतूहली सन् अनुभव भवमूर्तेः पार्श्ववर्ती मुहूर्त ।
पृथगथ विलसंतं स्वं समालोक्य येन त्यजसि झगिति मूर्त्या साकमेकत्वमोहं ॥२३॥ अथाहाप्रतिबुद्धः१ आत्मविनाशक ।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 250