Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 18
________________ सनातनजैनग्रंथमालायांसंसारकारणं ततः संसारभयभीतेन मोक्षार्थिना समस्तरागादिविभावरहिते शुद्धद्रव्यगुणपर्याये स्वरूपे निज परमात्मनि भावना कर्त्तव्येत्यभिप्रायः । एवं स्वतंत्रव्याख्यानमुख्यत्वेन तृतीयस्थले गाथात्रयं गतं । अथ यथाकोप्यप्रतिबुद्धः अग्निरिंधनं भवति इंधनमग्निर्भवति अग्निरिंधनमासीत् इंधनमग्निरासीत् अग्निरिंधनं भविष्यति इंधनमग्निर्भविष्यतीति वदति तथा यः कालत्रयेपि देहरागादिपरद्रव्यमात्मनि योजयति सोऽप्रतिबुद्धो बहिरात्मा मिथ्याज्ञानी भवतीति प्ररूपयति । आत्मख्यातिः–यथा स्पर्शरसगंधवर्णादिभावेषु पृथुवुध्नोदराद्याकारपरिणतपुद्गलस्कंधेषु घटोयमिति घटे च स्पर्शरसगंधवर्णादिभावाः पृथुतुनोदराद्याकारपरिणतपुद्गलस्कंधाश्चामी इति वस्त्वभेदेनानुभूतिस्तथा कर्मणि मोहादिष्वंतरंगेषु, नोकर्मणि शरीरादिषु बहिरंगेषु चात्मतिरस्कारिषु पुद्गलपरिणामेष्वहमित्यात्मनि च कर्ममोहादयोऽतरंगा नोकर्मशरीरादयो बहिरंगाश्चात्मतिरस्कारिणः पुद्गलपरिणामा अमी इति वस्त्वभेदेन यावंतं कालमनुभूतिस्तावंतकालमात्मा भवत्यप्रतिबुद्धः । यदा कदाचिद्यथारूपिणो दर्पणस्य स्वपराकारावभासिनी स्वच्छतैव वन्हेरौष्ण्यं ज्वाला च तथा नीरूपस्यात्मनः स्वपराकारावभासिनी ज्ञातृतैव पुद्गलानां कर्म नोकर्मचेति स्वतःपरतो वा भेदविज्ञानमूलानुभूतिरुत्पश्यति तदैव प्रतिबुद्धो भविष्यति । कथमपि हि लभंते भेदविज्ञानमूलामचलितमनुभूतिं ये स्वतो वान्यतो वा । प्रतिफलननिमग्नानंतभावस्वभावैर्मुकुरवदविकारा संततं स्युस्तएव ॥ २१॥ ननु कथमयमप्रतिबुद्धो लक्ष्येत अहमेदं एदमहं अहमेदस्सेव होमि मम एदं । अण्णं जं परदव्वं सचित्ताचित्तमिस्सं वा ॥२५॥ आसि मम पुव्वमेदं अहमेदं चावि पुवकालनि । होहिदि पुणोवि मझं अहमेदं चावि होस्सामि ॥२६॥ एयत्तु असंभूदं आदवियप्पं करेदि संमूढो । भूदत्थं जाणतो ण करेदि दु तं असंमूढो ॥२७॥ अहमेतदेतदहमेतस्यामि ममैतत् ।। अन्यद्यत्परद्रव्यं सचित्ताचित्तमिश्र वा ॥२५॥ आसीन्मम पूर्वमेतदेतत् अहमिदंच पूर्वकाले। भविष्यति पुनरपिमम अहमिदं चैव पुनर्भविष्यामि ॥२६॥ एतत्त्वसद्भूतमात्मविकल्पं करोति संमूढः । भूतार्थ जानन करोति तु तमसंमूढः ॥२७॥ तात्पर्यवृत्तिः-अहमेदं एदमहं अहं इदं परद्रव्यं इदं अहं भवामि । अहमेदस्सेव हि होमि ममएदं अहमस्य संबंधी भवामि मम संबंधीदं । अण्णं जं परद्रव्यं देहादन्यद्भिन्नं पुत्रकलत्रादि यत्पर द्रव्यं सचित्ताचित्तमिस्सं वा सचित्ताचित्तमिश्रं वा। तच्च गृहस्थापेक्षया सचित्तं स्त्र्यादि, अचित्तं सुवर्णादि, मिश्रं साभरणस्यादि । अथवा तपोधनापेक्षया सचित्तं छात्रादि, अचित्तं पिच्छकमंडलुपस्तकादि मिश्रमुपकरणसहितछात्रादि । अथवा सचित्तं रागादि अचित्तं पुद्गलादि पंच द्रव्यरूपं मिश्रं गुणस्थानजीवमार्गणादि परिणतसंसारिजीवस्वरूपमिति वर्तमानकालापेक्षया गाथा गता । आसीत्यादि आसि मम पुब्वमेदं आसीत् मम पूर्वमेतत् । अहमेदं चावि पुवकालहि अहमिदं चैव पूर्वकाले होहिदि पुणोबि

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 250