Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 16
________________ सनातनजैनग्रंथमालायांदर्शनज्ञानचारित्रैस्त्रित्वादेकत्वतः स्वयं । मेचको मेचकश्चापि सममात्मा प्रमाणतः ॥१६॥ दर्शनज्ञानचारित्रैत्रिभिः परिणतत्वतः । एकोपि त्रिस्वभावत्वाद्व्यहारेण मेचकः ॥१७॥ परमार्थेन तु व्यक्तज्ञातृत्वज्योतिषैककः । सर्वभावांतरध्वंसिस्वभावत्वादमेचकः ॥१८॥ आत्मा नश्चितयैवालं मेचकामेचकत्वयोः । दर्शनज्ञानचारित्रः साध्यसिद्धिर्न चान्यथा ॥१९॥ जह णाम को वि पुरिसो रायाणं जाणिऊण सद्दहदि । तो तं अणुचरदि पुणो अत्थत्थीओ पयत्तेण ॥२०॥ एवं हि जीवराया णादब्यो तह य सदहे दब्यो । अणुचरिदव्वो य पुणो सो चेव दु मोक्खकामेण ॥२१॥ यथानाम कोपि पुरुषो राजानं ज्ञात्वा श्रद्दधाति । ततस्तमनुचरति पुनरथोर्थिक प्रयत्नेन ॥२०॥ एवं हि जीवराजो ज्ञातव्यस्तथैव श्रदातव्यः । अनुचरितव्यश्च पुनः स चैव तु मोक्षकामेन ॥२१॥ तात्पर्यवृतिः-जह यथा णाम अहो स्फुटं वा कोवि कोपि कश्चित् पुरिसो पुरुषः रायाणं राजानं जाणिऊण छत्रचामरादिराजचिलैत्विा सद्दहदि श्रद्धत्ते अयमेव राजेति निश्चिनोति तो ततो ज्ञानश्रद्धानानंतरं तं तं राजानं अणुचरदि अनुचरति आश्रयत्याराधयति कथंभूतः सन् अत्थत्थीओ अर्थार्थिको जीवितार्थी पयत्तण सर्वतात्पर्येणेति दृष्टांतगाथा गता एवं अनेन प्रकारेण हि स्फुट जीवराया शुद्धजीवराजा णादव्वो निर्विकारस्वसंवेदनज्ञानेन ज्ञातव्यः । तह य तथैव सद्दहेव्वद वो अयमेव नित्यानंदैकस्वभावो रागादिरहितः शुद्धात्मेति निश्चतव्यः अणुचरिदव्यो य अनुचरितव्यश्च निर्विकल्प समधिनानुभवनीयः । पुनः सो एव स एव शुद्धात्मा दु पुनः मोक्खकामेण मोक्षार्थिना पुरुषेणेति दार्टीतः । इदमत्र तात्पर्य भेदाभेदरत्नत्रयभावनारूपया परमात्मचिंतयैव पूर्यतेऽस्माकं किं विशेषेण शुभाशुभ रूपविकल्पजालेनेति । एवं भेदाभदरत्नत्रयव्याख्यानमुख्यतया गाथात्रयं द्वितीयस्थले गतं । अथ स्वतंत्रव्याख्यानमुख्यतया गाथात्रयं कथ्यते तद्यथा स्वपरभेदविज्ञानाभावे जीवस्तावदज्ञानी भवति परं किंतु कियत्कालपर्यतं इति न ज्ञायते एवं पृष्टे सति प्रथमगाथायां प्रत्युत्तरं ददाति । आत्मख्याति:-यथा हि कश्चित्पुरुर्षोऽर्थार्थी प्रयत्नेन प्रथममेव राजानं जानीते ततस्तमेव श्रद्धत्ते ततस्तमेवानुचरति । तथात्मना मोक्षार्थिना प्रथममेवात्मा ज्ञातव्यः तत स एव श्रद्धातव्यः ततः सएवानुचरितव्यश्च साध्यसिद्धस्तथान्यथोपपत्त्यनुपपत्तिभ्यां । तत्र यदात्मनोनुभूयमानानेकभावसंकरेपि परमविवेककौशलेनायमहमनुभूतिरित्यात्मज्ञानेन संगच्छमानमेव तथेतिप्रत्ययलक्षणं श्रद्धानं चरणमुत्प्लवमानमा स्मानं साधयतीति साध्यसिद्धस्तथोपपत्तेः यदात्वाबालगोपालमेव सकलकालमेव स्वयमेवानुभूयमानेपि भगवत्यनुभूत्यात्मन्यनादिबंधवशात् परैः सममेकत्वाध्यवसायेन विमूढस्यायमहमनुभूतिरित्यात्मज्ञानं नोत्प्लवते तदभावादज्ञानखर,गश्रद्धानसमानत्वाच्छ्रद्धानमपि नोत्प्लवते तदा समस्तभावांतरविवेकेन निःशकमेव स्थातुमशक्यत्वादात्मानुचरणमनुत्प्लवमानं नात्मानं साधयीति साध्यसिद्धेरन्यथानुपपत्तिः । कथमपि समुपात्तत्रित्वमप्यकताया अपतितमिदमात्मज्योतिरुद्गच्छदच्छं । सततमनुभवामोनतचैतन्यचिह्न न खलु न खलु यस्मादन्यथा साध्यसिद्धिः ॥२०॥ ननु ज्ञानतादात्म्यादात्मात्मानं नित्यमुपास्व एव कुतस्तदुपास्यत्वेनानुशास्यत इति चेन्न यतो न

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 250