Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 19
________________ - समयप्राभृतं । मज्झं भविष्यति पुनरपि मम अहमेदं चावि होस्सामि अहमिदं चैव पुनर्भविष्यामि इति भूतभाविकालापेक्षया गाथा गता । एदमित्यादि एदं इमं तु पुनः असंभूदं असद्भूतं कालत्रयपरद्रव्यसंबंधिमिथ्यारूपं आदषियप्पं आत्मविकल्पं अशुद्धनिश्चयेन जीवपरिणामं करेदि करोति संमूढो सम्यङ्मूढः अज्ञानी बहिरात्मा भूदत्थं भूतार्थ निश्चयनयं जाणंतो जानन् सन् ण करेदि न करोति दु पुनः कालत्रयपरद्रव्यसंबंधिमिथ्याविकल्पं असंमूढो असंमूढः सम्यग्दृष्टिरंतरात्मा ज्ञानी भेदाभेदरत्नत्रयभावनारतः । किं च यथा कोप्यज्ञानी अग्निरिंधनं इंधनमग्निः कालत्रये निश्चयेनैकांतेनाभेदेन वदति तथा देहरागादिपरद्रव्यमिदानीमहं भवामि पूर्वमहमासं पुमरने भविष्यामीति यो वदति सोऽज्ञानी बहिरात्मा तद्विपरीतो ज्ञानी सम्यग्दृष्टिरंतरात्मेति । एवं अज्ञानी ज्ञानी जीवलक्षणं ज्ञात्वा निर्विकारस्वसंवेदनलक्षणे भेदज्ञाने स्थित्वा भावनां कर्तेति तामेव भावनां दृढयति यथा कोपि राजसेवकपुरुषो राजशत्रुभिः सह संसर्ग कुर्वाणः सन् राजाराधको न भवति तथा परमात्माऽराधकपुरुषस्तत्प्रतिपक्षभूतमिथ्यात्वरागादिभिः परिणममाणः परमात्माराधको न भवतीति भावार्थः । एवमप्रतिबुद्धलक्षणकथनेन चतुर्थस्थले गाथात्रयं गतं । अथाप्रतिबुद्धसंबोधनार्थ व्यवसायः क्रियते ।। __आत्मख्यातिः-यथाग्निरिंधनमस्तीधनमग्निरस्त्यग्नेरिंधनमस्तीधनस्याग्निरस्त्यग्नेरिंधनं • पूर्वमासीद्धिनस्याग्निः पूर्वमासीदग्नेरिंधनं पुनर्भविष्यतींधनस्याग्निः पुनर्भविष्यतीतींधन एवासद्भूताग्निविकल्पत्वेनाप्रतिवुद्धः कश्चिलक्ष्येत तथाहमेतदस्म्येतदहमस्ति ममैतदस्त्येतस्याहमस्मि ममैतत्पूर्वमासीदेतस्याहं पूर्वमासं ममैतत्पुनभविष्यत्येतस्याहं पुनर्भविष्यामीति परद्रव्यएवासद्भूतात्मविकल्पत्वेनाप्रतिबुद्धो लक्ष्येतात्मा । नाग्निरिंधनमस्ति नेधनमग्निरस्त्यग्निरग्निरस्तींधनमिंधनमस्ति । नाग्नेरिंधनमस्ति नेधनस्याग्निरस्त्यग्नेरग्निरस्तींधनस्यधनमस्ति । नाग्नेरिंधनं पूर्वमासीन्धनस्याग्निः पूर्वमासीदग्नेरग्निः पूर्वमासीदिधनस्येंधनं पूर्वमासीन्नाग्नेरिधनं पुनर्भविष्यति नेधनस्याग्निः पुनर्भविष्यत्यग्नेरग्निः पुनर्भविष्यतींधनस्येंधनं पुनर्भविष्यतीति कस्यचिदग्नावेव सद्भूताग्नि विकल्पवन्नाहमेतदस्मि नैतदहमस्त्यहमहमस्म्येतदतदस्ति न ममैतदस्ति नैतस्याहमस्मि ममाहमस्म्येतस्यैतदस्ति न ममैतत्पूर्ममासीन्तस्याहं पूर्वमासं ममाह पूर्वमासमेतस्यैतत्पूर्वमासीन्न ममैतत्पुनर्भविष्यति नैतस्याहं पुनर्भविध्यामि ममाहं पुनर्भविष्याम्येतस्यैतत्पुनर्भविष्यतीति स्वद्रव्य एव सद्भूतात्मविकल्पस्य प्रतिबुद्धलक्षणस्य भावात्। त्यजतु जगदिदानी मोहमाजन्मलीनं रसयतु रसिकानां रोचनं ज्ञानमुद्यत् ।। इह कथमपि नात्मानात्मना साकमेकः किल कलयति काले क्वापि तादात्म्यवृत्तिं ॥ २२ ॥ अथाप्रतिबुद्धबोधनाय व्यवसाय: अण्णाणमोहिदमदी मज्झमिणं भणदि पुग्गलं दव्वं । . वद्धमवद्धं च तहा जीवो बहुभावसंजुत्तो ॥२८॥ सवण्हणाणदिठो जीवो उवओगलक्षणो णिचं । किह सो पुग्गलदव्वी भूदो जं भणसि मज्झमिणं ॥२९॥ जदि सो पुग्गलदवी भूदो जीवत्तमागदं इदरं । तो सत्ता वुत्तुं जे मज्झमिणं पुग्गलं दव्वं ॥३०॥ अज्ञानमोहितमतिर्ममेदं भणति पुद्गलद्रव्यं । बद्धमबद्धं च तथा जीवो बहुभावसंयुक्तः ॥२८॥ सर्वज्ञज्ञानदृष्टो जीव उपयोगलक्षणो नित्यं । कथं स पुद्गलद्रव्यीभूतो यद्भणास ममेदं ॥२९॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 250