Book Title: Rajprashniyasutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
बहमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायापविष्कम्भाभ्यां चखारि योजनानि बाहल्येन 'सवमणिमयी' इत्यादि प्राग्वत् , तस्याश्च मणिपीठिकाया उपरि अब महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य, तस्या अप्युपपातसभाया उपरि अष्टाष्टमङ्गलकादीनि पाग्वत् । 'तोसे ण' मित्यादि, तस्या उपपातसभाया उतरपूर्वस्यां दिशि महानेको हुदः प्रज्ञप्तः, स चैकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतो दश योजनान्युद्वेधेन 'अच्छे रययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं, 'से ण'मित्यादि, स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत् , तस्य इदस्य त्रिदिशि-तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्वत् , तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं नथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सबरयणामयी' इत्यादि प्राग्वत् , तस्या मणिपीठिकायो उपरि अत्र महदेकं सिंहासन, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि च वक्तव्यानि, तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकमाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, तीसे णं अभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत् , तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका अलङ्कार
dain Education in ITIL
For Personal & Private Use Only
LUw.jainelibrary.org

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302