SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ बहमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायापविष्कम्भाभ्यां चखारि योजनानि बाहल्येन 'सवमणिमयी' इत्यादि प्राग्वत् , तस्याश्च मणिपीठिकाया उपरि अब महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य, तस्या अप्युपपातसभाया उपरि अष्टाष्टमङ्गलकादीनि पाग्वत् । 'तोसे ण' मित्यादि, तस्या उपपातसभाया उतरपूर्वस्यां दिशि महानेको हुदः प्रज्ञप्तः, स चैकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतो दश योजनान्युद्वेधेन 'अच्छे रययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं, 'से ण'मित्यादि, स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत् , तस्य इदस्य त्रिदिशि-तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्वत् , तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं नथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सबरयणामयी' इत्यादि प्राग्वत् , तस्या मणिपीठिकायो उपरि अत्र महदेकं सिंहासन, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि च वक्तव्यानि, तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकमाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, तीसे णं अभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत् , तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका अलङ्कार dain Education in ITIL For Personal & Private Use Only LUw.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy