Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 342
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ||३०८|| Jain Educationa | प्राचीनाचायैः सह संगतीकर्तुं शक्यते, यो येन योजयितुं शक्यते तत्तेन विकल्प्य २ नियोज्य लिखित, पश्चाच्च गणधर सार्द्धश|तकवृच्यादिरूपेण प्रवर्त्तितं, तत्कल्पना त्वेवं यदि वयं श्रीसुधर्म्मस्वामिनोऽच्छिन्नपरम्परागता न भवामस्तर्हि अन्येषामभिभवनीया भ|विष्याम इति विचिन्त्य पट्टावली विकल्पिता, सा च गुरुशिष्यत्वादिसंबन्धे सत्येव नान्यथेतिकृत्वा प्रत्यासन्नेष्वाचार्ये ववश्यं संबन्धः कल्पनीयः, तेन कथंचित्संबन्धो जिनवल्लभस्य श्रीअभयदेवसूरिणा सह विकल्पितस्तत्रापि सूरिपदमन्तरेण तत्पट्टधर| त्वमसंभवीतिकृत्वा कर्णजापपरम्परासमुद्भवमाचार्यपदं विकल्पितं, विरुदमपि सहेतुकमितिहेतुः, तत्र दुर्लभराजसभायां श्रीजिने|श्वरसूरेश्वैत्यवासिभिः सह विवादे जयात्तेषां लोकेँ राज्ञा च खरतरबिरुदं दत्तं, तेनास्मदीयान्वये नवाङ्गीवृत्तिकराः संजाता इत्या| त्मनो मुधोत्कर्षमुद्धोपर्यंतोऽपि तीर्थेनोपेक्षिताः सन्तस्तीर्थसमा इत्याख्यां मुग्धजनेभ्यो लब्धवन्तः, तथाऽपरजिनवल्लभकृतानि | पिण्डविशुद्धयादीनि प्रकरणान्यप्यस्मदभिमतजिनवल्लभकुतानीति वचनेन जिनवल्लभोऽपि मुधा ख्यातिपदवीमारोपितः, एवमास्तामन्यत्, श्रीभद्रबाहुस्वामिकृतं “जइजा समणे भयव' मिति स्तोत्रमपि प्रान्ते नवीनगाथां प्रक्षिप्यास्मदीयश्रीअभयदेवसूरिकृतमित्युद्घोषितमित्यादि सर्वमपि 'यो यथा बुद्ध्यते जन्तुस्तं तथा बोधयेद् बुधः' इति वाक्यं शरणीकृत्य जिनपतिसूरिणा ब्रह्माण्डकल्पं स्वमतं विकल्प्य तदनुसारेण मर्यादा कृता सर्वेषां सम्मता जाता, प्रकरणानि तु प्रायस्तदन्वेव निष्पन्नानि यानि च पूर्वं निष्पन्नानि तानि चाननुगत विचारनिष्काशनपूर्वकानुगतविचारप्रक्षेपयुक्तानि कृतानि, अत एवैकवाक्यता प्रायो ग्रन्थेष्वपि दृश्यते, न पुनः सर्वथा, यतः | पौषधविधिप्रकरणे सामायिकोच्चारे नमस्कारत्रयपूर्वकत्रिरुच्चारोऽसन्नपि तदुद्धाररूपे लिखितः, स चासंगत एवेत्याद्यनेकमसंगतमपि | विकल्पितम्, अथैवंविधेऽपि मर्यादाकरणे देशेन दृष्टान्तमाह-'जह जिणे' त्यादि यथा सूत्रेषु सूत्रपाठेषु श्रीवज्रस्वामिना मर्यादा For Personal and Private Use Only जिनवल्लभचर्चा ॥३०८|| www.jainelibrary.org.

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498