Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
1180911
लोचना २ऽष्टमतपो३ लोच४ सांवत्सरिकप्रतिक्रमण५ लक्षणानि पञ्च कृत्यानि नियतानि तान्यधिकृत्य प्रथमो भाद्रपदो नपुंसक - वदसमर्थः, नपुंसकत्वं च ज्योतिर्विदां प्रतीतमेव यदुक्तं - “यात्राविवाहमण्डनमन्यान्यपि शोभनानि कर्माणि । परिहर्त्तव्यानि बुधैः, | सर्वाणि नपुंसके मासि || १ ||" इति, तस्मात्सर्वोत्तमो द्वितीय एव भाद्रपदोऽधिकर्त्तव्यः एवमष्टम्यादयस्तिथयः कार्त्तिकादयश्च मासा अपि योजनीया इति गाधार्थः || २०८ || अथ परोक्तमुपहास्यवचनमुद्भाव्य दूषयितुं गाधायुग्ममाह
एहिए मासे पुण्णापुण्णायवच्च मच्चुछुहं । तह लभलाहु लोए न होड़ किं जेण सो कीवो १ ॥ २०९ ॥ एवमुवासवयणं नगिणस्स वडलंकि अपि पट परिसं । जं चाउमासपमुहे निअगलपासंपि न मुणेइ || २१० ॥
एतेन प्रागुक्तप्रकारेणाधिके मासे पुण्यं दानादिलक्षणमपुण्यं - हिंसादिलक्षणं पापम् आदिशब्दात् तजन्यं कार्यस्वर्गादिलक्षणमपत्यं - गर्भधरणग्रसचादिलक्षणं मृत्युः पञ्चत्वं क्षुधा उपलक्षणात्तृपादिपरिग्रहः, पुण्यं चापुण्यं चादिर्यस्य पूजादेस्तत्पुण्यापुण्यादि तच्चापत्यं च मृत्युश्च क्षुधा चेति समाहारद्वन्द्वः, तथा लभ्यलाभो लोके किं न भवति ? येन सोऽभिवर्द्धितो मासः क्क़ीबो भण्यते, उपलक्षणाकि समासः काकेन भक्षित इत्येवमुपहास्यवचनं नगस्यालङ्कृतं - वस्त्राभरणादिभिः सर्वाङ्गविभूषितमपि पुरुषं प्रतीव बोध्यं, | यथाहि कश्चिद्भूतात विवस्त्रीभ्य परिभ्रमन् विभूषितमपि पुरुषमुपहसति तथाऽयमपीति भूतार्तत्वे हेतुमाह- 'जं चाउ'त्ति यद्यस्मात् चातुर्मासकप्रमुखे चातुर्मासिकसांवत्सरिककृत्येषु निजगलपाशमपि न जानातीत्यक्षरार्थः भावार्थस्त्वयम् अत्र कश्चिच्छ्राव णिकोऽतिवाचालतया व्रते ननु भो अधिको मासः किं काक्रेन भक्षितः किं वा तस्मिन् मासे साधुदानजिनपूजादिकृत्यजन्यं पुण्यं | न भवति उत हिंसायाश्रवसेवातः पातकं न भवति उत गर्भाधानप्रसवादि न भवत्यथवा ऋणाद्यसंभवः किं वा तन्मासे वृक्षा
Jain Educationa International
For Personal and Private Use Only
अयथास्था
नोत्सूत्रं
112 811
www.jainelibrary.org

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498