Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 468
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥ ४३४ ॥ Jain Education Inte यथा लिङ्गाचारपरित्यक्तः साधुर्व्यवहारनये साधुर्न भवति, तत्र लिङ्गं रजोहरणादि आचारस्तु प्रतिलेखन प्रतिक्रमणादिनियतक्रियारूपस्ताभ्यां परित्यक्तः - शून्यः अन्तर्वृत्या कृतमहात्रतोच्चारोऽपि गृहलिङ्गी - गृहोचितव्यापाररहितोऽपि साध्वनुष्ठान रहितो न साधुव्यपदेशभाक् स्याद् एवमनन्यगत्या व्यवहारतः सामायिकव्यञ्जकं रजोहरणादिलिङ्गमेव, तच्च सशिखशिरःप्रभृतिषु चिह्नेषु सत्सु कथञ्चित्साध्वनुकृतिमात्रमेव मन्यते, न पुनः सर्वथेति युक्त्या स्फुटं यथा स्यात्तथा सिद्धा मुखवस्त्रिका श्रावकादीनामपि सामायिकादिक्रियासाधनोपयोगि नीतिगाथार्थः॥ ३ ॥ अथागमानुयायियुक्तिसिद्धामपि मुखवस्त्रिकां मुग्धजनप्रत्यायनार्थं नामग्राहेणापि सिद्धान्तसिद्धां दर्शयितुमाह उबगरणे पुण तुकं भणिअं समणेहिं सावयाणंपि । अणुओगाइसु आवस्सयकिरिआसाहणंमि फुटं ॥ १४ ॥ अनुयोगादिषु-अनुयोगद्वारपञ्चाशक वृत्यादिष्वाचश्यक क्रियासाधने - उभयसंध्यप्रतिक्रमणादिक्रियाकरणे स्फुटं यथा स्यातथा श्रावकाणामप्युपकरण - रजोहरणादिकं श्रमणैः साधुभिस्तुल्यं - समानं भणितं, तथाहि - "किन्तं लोउत्तरिअं भावावस्सयं १, २जं णं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झसिए तदज्झवसाणे तदप्पिकरणे अण्णत्थ ! कत्थड मणं अकुद्देमाणे उभयकाले आवस्मयं करिति"त्ति श्री अनुयोगसूत्रम्, एतद्दृश्येकदेशो यथा- 'तदपितकरणः ' करणानि -त| त्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन् - आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन, सर्वथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः इति श्रीअनुयोगद्वारवृत्तिः, तथा " तस्स हणे जाणि सरीररओहरणमुहणंतगादिआणि दव्वाणि ताणि | किरिआकरण त्तणओ अपिआणित्ति" अनुयोगचूर्णी, तथा यदुक्तम् - "उपासकदशाङ्गादावनुक्तत्वाच्छ्रावकाणामावश्यकमयुक्तमिति । For Personal and Private Use Only मुखपोतिकासिद्धिः ॥४३४॥ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498