________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥ ४३४ ॥
Jain Education Inte
यथा लिङ्गाचारपरित्यक्तः साधुर्व्यवहारनये साधुर्न भवति, तत्र लिङ्गं रजोहरणादि आचारस्तु प्रतिलेखन प्रतिक्रमणादिनियतक्रियारूपस्ताभ्यां परित्यक्तः - शून्यः अन्तर्वृत्या कृतमहात्रतोच्चारोऽपि गृहलिङ्गी - गृहोचितव्यापाररहितोऽपि साध्वनुष्ठान रहितो न साधुव्यपदेशभाक् स्याद् एवमनन्यगत्या व्यवहारतः सामायिकव्यञ्जकं रजोहरणादिलिङ्गमेव, तच्च सशिखशिरःप्रभृतिषु चिह्नेषु सत्सु कथञ्चित्साध्वनुकृतिमात्रमेव मन्यते, न पुनः सर्वथेति युक्त्या स्फुटं यथा स्यात्तथा सिद्धा मुखवस्त्रिका श्रावकादीनामपि सामायिकादिक्रियासाधनोपयोगि नीतिगाथार्थः॥ ३ ॥ अथागमानुयायियुक्तिसिद्धामपि मुखवस्त्रिकां मुग्धजनप्रत्यायनार्थं नामग्राहेणापि सिद्धान्तसिद्धां दर्शयितुमाह
उबगरणे पुण तुकं भणिअं समणेहिं सावयाणंपि । अणुओगाइसु आवस्सयकिरिआसाहणंमि फुटं ॥ १४ ॥
अनुयोगादिषु-अनुयोगद्वारपञ्चाशक वृत्यादिष्वाचश्यक क्रियासाधने - उभयसंध्यप्रतिक्रमणादिक्रियाकरणे स्फुटं यथा स्यातथा श्रावकाणामप्युपकरण - रजोहरणादिकं श्रमणैः साधुभिस्तुल्यं - समानं भणितं, तथाहि - "किन्तं लोउत्तरिअं भावावस्सयं १, २जं णं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झसिए तदज्झवसाणे तदप्पिकरणे अण्णत्थ ! कत्थड मणं अकुद्देमाणे उभयकाले आवस्मयं करिति"त्ति श्री अनुयोगसूत्रम्, एतद्दृश्येकदेशो यथा- 'तदपितकरणः ' करणानि -त| त्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन् - आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन, सर्वथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः इति श्रीअनुयोगद्वारवृत्तिः, तथा " तस्स हणे जाणि सरीररओहरणमुहणंतगादिआणि दव्वाणि ताणि | किरिआकरण त्तणओ अपिआणित्ति" अनुयोगचूर्णी, तथा यदुक्तम् - "उपासकदशाङ्गादावनुक्तत्वाच्छ्रावकाणामावश्यकमयुक्तमिति ।
For Personal and Private Use Only
मुखपोतिकासिद्धिः
॥४३४॥
www.jainelibrary.org.