Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Poticlth
mar
S
श्रीप्रव
तदयुक्तम् , अनुपदिष्टस्यासिद्धत्वात , तथाहि-यद्यप्युपासकशाङ्गादौ नोपदिष्टं सम्प्रति न उपलभ्यते तथाऽप्यनुयोगद्वारे तदुपदिष्ट, मुखपोतिचनपरीक्षा || || तथाहि-जं इमं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मण" इत्यादि वच इहापि बोध्यं, उपधानादिपाठवत् | कासिद्धिः ४विश्रामे
तथाविधपाठस्यापि व्युच्छिन्नत्वात् , एवं यावत् सुभद्राश्राविकानिदर्शनतश्च श्रावकस्य विधेयतया प्रतिपत्तव्यमिति पश्चाशकवृत्ती, ॥४३५॥
अत्र व्यक्तमेव नामग्राहेण साधनामिव श्रावकाणामपि मुखवस्त्रिका आवश्यकक्रियोपयोगिनी भणितेति गाथार्थः ॥१४॥ अथ ग्रन्थान्तरसम्मतिमाह
तह पाहावागरणे संवरदारंमि आइमे पूआ। मुहणंतयपमुहेहिं सड्ढाणमणेसणाहेऊ ॥१५॥ तथा प्रश्नव्याकरणे-प्रश्नव्याकरणनाम्नि दशमाङ्गे आदिमे-प्रथमे संवरद्वारे मुखानन्तकप्रमुखैः-मुखवत्रिकाजपमालिकाप्रमुखैः | श्राद्धानां-श्रावकाणां पूजाऽनेपणाहेतुः साधोर्भवतीति भणितमिति बोध्यं,यथा भणितं तथा चाह-"नवि वंदणमाणणपूअणाए मिकखं गवेसविअई"ति श्रीप्रश्नव्याकरणाङ्गे प्रथमसंवरद्वारे, एतद्वृत्त्येकदेशो यथा-'नवी'त्यादि मैक्ष-भिक्षासमूहो गवेषयितव्यम्अन्वेषणीयं नापि वन्दनेन-स्तवनेन यथा “सो एसो जस्स गुणा विधरंति अवारिआ दस दिसासुं। इरा कहासु सुबसि पञ्चकरखं | अञ्ज दिट्ठोसि॥१॥"त्ति, नापि माननया आसनदानादिप्रतिपच्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानलक्षणया" इत्यत्र यदि श्रावकाणां मुखवत्रिकाया अनुपयोगो भवेत्तर्हि तदानेन तदावजनार्थ पूजाऽपि न भवेदिति स्वयमेव पर्यालोच्यमिति गाथार्थः ॥१५॥ अथ मुखवस्त्रिकाप्रतिषेधनानन्तरं स्तनिकेन किं प्रतिषिद्वामित्याहउवगरणे पडिसिटे पडिसिद्धं मावयाण पडिकमणं । विवरीअं पडिसेहं केइबि बहकालअंतरिअं ॥१६॥ ४३५॥
i
taraineerica
M
For Pesand Private Use Only

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498