Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
॥ बालावमाननम्॥
द्वितीयो भागः मुनिस्तयोः पूर्वस्य भवस्य कथां कथयति । हे नृप ! अत्रैव क्षेत्रेऽचलग्रामे विक्रमः कौटुम्बिको विक्रमदेवी भार्या । तयोरपत्यानि प्रातिवेशिकस्य ब्राह्मणस्य बालैः सह क्रीडन्ति । अन्यदा निष्पन्नस्य कृषिकर्मकस्य वीक्षणाय तौ क्षेत्रं गतौ । तत्र निजबालैः सह विप्रबालाः फलिकाचिर्भटादि भक्षयन्ति । तत् तौ पश्यतः । अथ कोपान्निर्भर्त्सयतः-रे रे दुराचाराः केनाकारिता यूयम् । सर्वमपि क्षेत्रं भक्षितम् । यत् क्रियते युष्माकं तत् सर्वमपि स्तोकम् । परं किं क्रियते-रक्षकस्यापि खलु प्रातिवेश्मिकानामपत्यानि सन्ति । इति पुनः पुनर्भणनात् पापं बद्धम् । अज्ञानभावान्न पश्चात्तापः कृतो न चालोचितम् । सन्तानान्तरायात् पापादनपत्यतादुःखमिति ॥
[कामदेवनृपतिकथा]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90