Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 34
________________ प्रथमं गीर्वाणसाहित्य सोपानम् । जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम् । निर्विशङ्केन वक्तव्यं वाचालः को न पण्डितः ॥७४॥ क्वचिद् रुष्टः क्वचित् तुष्टो रुष्टस्तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥७५॥ इतरकर्मफलानि यथेच्छया विलिख तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ७६ ॥ वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि ॥ ७७ ॥ पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ ७८ ॥ २५ गुणिगणगणनारम्भे न पतति कठिनी सुसंभ्रमाद्यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ।। ७९ ।। पुस्तकेषु च नाधीतं नाधीतं गुरुसंनिधौ । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ८० ॥ माता शत्रुः पिता वैरी येन वालो न पाठितः । न शोभते सभामध्ये इंसमध्ये बको यथा ।। ८१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90