Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 32
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । लक्ष्म्या परिपूर्णोऽहं न भयं मेऽस्तीति मोहनिद्रेषा । परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः ॥५७ ॥ वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः । वरमपि घोरे नरके पतनं न च धनगर्वितबान्धवशरणम् ॥५८॥ अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥ ५९ ॥ खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥ ६० ॥ विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य,साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ।।६१।। उदये सविता रक्तो रक्तश्चास्तमने तथा। संपत्तौ च विपत्तौ च महतामेकरूपता ॥६२॥ वने जने शत्रुजलामिमध्ये महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ।। अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥६४॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषा मानसनिग्रहात् ।। ६५ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90