Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co
View full book text
________________
प्रथमं गीर्वाणसाहित्यसोपानम् । किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ ६६ ।। गौरवं प्राप्यते दानान तु वित्तस्य संचयात् । स्थितिरुचैः पयोदानां पयोधीनामधः स्थितिः॥ ६७ ॥ एक एव खगो मानी वने वसति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥ ६८॥ एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः। स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ६९ ।। मया बदरलुब्धेन वृक्षाणामनभिज्ञया। बने कण्टकसादृश्यात् खदिरः पर्युपासितः ॥७॥
वसन्त्यरण्येषु चरन्ति दूर्वाः
पिबन्ति तोयान्यपरिग्रहाणि । तथापि वध्या हरिणा नराणां
को लोकमाराधयितुं समर्थः ।।७।। काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयो। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥७२॥ अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥७३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90