SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ ६६ ।। गौरवं प्राप्यते दानान तु वित्तस्य संचयात् । स्थितिरुचैः पयोदानां पयोधीनामधः स्थितिः॥ ६७ ॥ एक एव खगो मानी वने वसति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥ ६८॥ एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः। स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ६९ ।। मया बदरलुब्धेन वृक्षाणामनभिज्ञया। बने कण्टकसादृश्यात् खदिरः पर्युपासितः ॥७॥ वसन्त्यरण्येषु चरन्ति दूर्वाः पिबन्ति तोयान्यपरिग्रहाणि । तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ।।७।। काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयो। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥७२॥ अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥७३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy