SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्य सोपानम् । जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम् । निर्विशङ्केन वक्तव्यं वाचालः को न पण्डितः ॥७४॥ क्वचिद् रुष्टः क्वचित् तुष्टो रुष्टस्तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥७५॥ इतरकर्मफलानि यथेच्छया विलिख तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ७६ ॥ वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि ॥ ७७ ॥ पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ ७८ ॥ २५ गुणिगणगणनारम्भे न पतति कठिनी सुसंभ्रमाद्यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ।। ७९ ।। पुस्तकेषु च नाधीतं नाधीतं गुरुसंनिधौ । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ८० ॥ माता शत्रुः पिता वैरी येन वालो न पाठितः । न शोभते सभामध्ये इंसमध्ये बको यथा ।। ८१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy