________________
प्रथमं गीर्वाणसाहित्यसोपानम् । पितरं चाप्यवज्ञाय मातरं च नराधिप । गुरुं च भरतश्रेष्ठ नरकं प्रतिपद्यते ॥ ८२॥ सौमित्रे! पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैलेशा द्रुमाः सशिखरा इव ॥ ८३॥ अकर्दममिदं तीर्थ भरद्वाज! निशामय । रमणीयं प्रसन्नाम्बु सज्जनानां मनो यथा ।। ८४ ।। न त्वहं कामये राज्यं न स्वर्ग नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ॥ ८५ ॥
--
-
॥ स्तोत्रपाठः॥ अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् । पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ।। ८७ ।। गोविन्दं गोकुलानन्दं गोपालं गोपवल्लभम् । गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम् ॥ ८८ ॥ रघुवर ! तव मूर्तिसमके मानसाब्जे ।
नरकगतिहरं ते नामधेयं मुखे मे ॥ अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे ।
भवजलनिधिमनं रक्ष मामार्तबन्धो! ।। ८९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com