________________
प्रथमं गीर्वाणसाहित्यसोपानम् । श्रीरामचन्द्र ! रघुपुंगव ! राजवर्य !
राजेन्द्र ! राम! रघुनायक! राघवेश ! राजाधिराज ! रघुनन्दन ! रामचन्द्र ।
दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ९० ॥ रामरत्नमहं वन्दे चित्रकूटपति हरिम् । कौसल्याभक्तिसंभूतं जानकीकण्ठभूषणम् ।। ९१ ॥ दुष्टनिर्दलन ! देव ! दयालो! पद्मनाभ! धरणीधर! धर्मिन् ! रावणान्तक! रमेश ! मुरारे ! श्रीपते! शमय दुःखमशेषम् ।। विश्वमङ्गल ! विभो ! जगदीश !
नन्दनन्दन ! नृसिंह ! नरेन्द्र ! मुक्तिदायक ! मुकुन्द ! मुरारे !
श्रीपते ! शमय दुखमशेषम् ॥ ९३ ॥ त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्व मम देवदेव ! ॥ ९४ ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ।
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ९५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com