________________
प्रथमं गीर्वाणसाहित्यसोपानम् । जयतु जयतु देवो देवकीनन्दनोऽयम् ।
जयतु जयतु कृष्णो वृष्णिवंशमदीपः ।। जयतु जयतु मेघश्यामलः कोमलाङ्गः ।
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः॥ ९६ ।। नारायण ! करुणामय ! शरणं करवाणि तावको चरणौ । इति षट्पदी मदीये वदनसरोजे सदा वसतु ।। ९७ ।। गुरुब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ९८॥ न जनको जननी न च सोदरो
न तनयो न च भूरिबलं कुलम् ।। अवति कोऽपि न कालवशं गतम् । __ भजत रे मनुजा गिरिजापतिम् ॥ ९९ ।। करचरणकृतं वाकायजं कर्मजं वा । ___ श्रवणनयनजं वा मानसं वाऽपराधम् ।। विहितमविहितं वा सर्वमेतत्क्षमस्व ।
जय जय करुणाब्धे ! श्रीमहादेव ! शम्भो!॥१०॥ रामो राजमणिः सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामानास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे भोराम!मामुद्धर ॥१०१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com