Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 21
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । १३ ॥ रुशमेन्द्रयोः कथा ॥ इन्द्रश्च रुशमा चांशं प्रास्यताम् - यो नौ पूर्वो भूमिं परिंगच्छति स जयतीति । भूमिमिन्द्रः पर्यगच्छत् कुरुक्षेत्रं रुशमा । साऽवदत्- अजयं त्वा - इति । अहमेव त्वामजयमितीन्द्रोऽवदत् । तौ देवेष्वपृच्छताम् । ते देवा अकथयन् । एतावती वाव प्रजापतेर्वेदियवत् कुरुक्षेत्रम् - इति । तौ न व्यजयेताम् ॥ [ ताण्ड्यमहाब्राह्मणम् ] १२ १४ ॥ सारमेयकथा | अस्ति कस्मिंश्विद्देशे चित्राङ्गो नाम सारमेयः । एकदा तत्र दुर्भिक्षं पतितम् | अन्नस्याभावात्सारमेयाणां कुलं नष्टप्रायम् । चित्राङ्गस्याऽपि कण्ठस्तदा क्षुधया शुष्कोऽभवत् । ततः स भयादन्यं देशमगच्छत् । तत्रैकस्य पुरुषस्य गृहे तस्य भार्यायाः प्रमादेन प्रतिदिनं प्रविशति । अन्नस्य भक्षणेन च तृप्तिं गच्छ ति । परं यदा गृहाद्बहिरागच्छति तदा मदोद्धतैरन्यैः सारमेयैर्दष्ट्राभिस्तस्य सर्वाङ्गं विदार्यते । ततस्तेन चिन्तितम् । अहो वरं स्वदेशो यत्र दुर्भिक्षेऽपि जीवन्ति जनाः । न चान्यैः युध्यन्ते । तदहं स्वनगरं व्रजामि । इति चिन्तयित्वा स सह स्वस्थानं प्रत्यगच्छत् । [ पञ्चतन्त्रम् ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90