Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 29
________________ ૨૦ प्रथमं गीर्वाणसाहित्यसोपानम् । शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न वने वने ॥ ३० ॥ शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता दशसहस्त्रेषु दाता भवति वा न वा ॥ ३१ ॥ गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपलभ्यते ॥ ३२ ॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ ३३ ॥ मक्षिका व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः । नीचाः कलहमिच्छन्ति शान्तिमिच्छन्ति साधवः ॥ ३४ ॥ दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खों यावत् किंचिन्न भाषते ॥ ३५ ॥ लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥ ३६ ॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ ३७ ॥ जम्बूफलानि पक्वानि पतन्ति विमले जले । कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलु ॥ ३८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90