________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
१३ ॥ रुशमेन्द्रयोः कथा ॥
इन्द्रश्च रुशमा चांशं प्रास्यताम् - यो नौ पूर्वो भूमिं परिंगच्छति स जयतीति । भूमिमिन्द्रः पर्यगच्छत् कुरुक्षेत्रं रुशमा । साऽवदत्- अजयं त्वा - इति । अहमेव त्वामजयमितीन्द्रोऽवदत् । तौ देवेष्वपृच्छताम् । ते देवा अकथयन् । एतावती वाव प्रजापतेर्वेदियवत् कुरुक्षेत्रम् - इति । तौ न व्यजयेताम् ॥
[ ताण्ड्यमहाब्राह्मणम् ]
१२
१४
॥ सारमेयकथा |
अस्ति कस्मिंश्विद्देशे चित्राङ्गो नाम सारमेयः । एकदा तत्र दुर्भिक्षं पतितम् | अन्नस्याभावात्सारमेयाणां कुलं नष्टप्रायम् । चित्राङ्गस्याऽपि कण्ठस्तदा क्षुधया शुष्कोऽभवत् । ततः स भयादन्यं देशमगच्छत् । तत्रैकस्य पुरुषस्य गृहे तस्य भार्यायाः प्रमादेन प्रतिदिनं प्रविशति । अन्नस्य भक्षणेन च तृप्तिं गच्छ ति । परं यदा गृहाद्बहिरागच्छति तदा मदोद्धतैरन्यैः सारमेयैर्दष्ट्राभिस्तस्य सर्वाङ्गं विदार्यते । ततस्तेन चिन्तितम् । अहो वरं स्वदेशो यत्र दुर्भिक्षेऽपि जीवन्ति जनाः । न चान्यैः युध्यन्ते । तदहं स्वनगरं व्रजामि । इति चिन्तयित्वा स
सह
स्वस्थानं प्रत्यगच्छत् ।
[ पञ्चतन्त्रम् ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com