________________
प्रथमं गीर्वाणसाहित्यसोपानम् । १३
१५ ॥ मुखरस्य कच्छपस्य कथा ।। अस्ति कस्मिचिंजलाशये कम्बुग्रीवो नाम मुखरः कच्छपः। तस्य द्वौ हसौ मित्रे । अथ ते त्रयोऽपि नित्यमेव कासारस्य तीरे मिलित्वा कथाभिः कालं नयन्ति स्म । अथ कालेन पर्जन्यस्याभावात्स कासारः शोषमगच्छत् । तेन स कूर्मो जलं विना कासारे भृशं दुःखितः । ततस्तस्य दुःखेन दुःखितौ तौ हंसौ तं वदतः स्म । भो मित्र ! एष जलाशयः शुष्कस्तत्कथं त्वं जीवसीत्यावयोश्चित्तं व्याकुलं वर्तत इति । ततः स कूर्मो वदति । अस्त्यत्रोपायः सत्वरमाकर्णयतम् । एका दृढा रज्जुलंघु काष्ठं चानीयेताम् । अहं तस्मिन्काष्ठे लम्बितां रज्जु दन्तैर्धारयामि । युवां चञ्चुभ्यां काष्ठं धारयतम् । ततः प्रभूतेन जलेन युक्तमपरंतडागं मां नयतमिति । हंसाववदताम्-भो वयस्य! एवं भवतु । परं गमनकाले त्वं मौनव्रतं सेवस्व । नो चेत्काष्ठात्तव पतनं निश्चितमिति । ततः स कूर्मः प्रयाणकाले मौनं भजते । हंसौ च तं चञ्चुभ्यां धृत्वा चलतः । अथ तेषां दर्शनेनाधः स्थितस्य पुरस्य जना विस्मिता ऊवं विलोकयत्युच्चैर्वदन्ति च। अहो चक्राकारं किमपि हंसाभ्यां नीयते, पश्यत पश्यतेति । ततस्तेषां कोलाहलस्य श्रवणात्स कूर्मः पृच्छति । भोः ! कस्यायं कोलाहल इत्योक्ते काष्ठात्स भ्रष्टो मृतश्च ।
[पञ्चतन्त्रम् ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com