________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
॥ अनुमानपाटवम् ॥
प्रथमो भागः एकस्य पण्डितस्य द्वौ छात्रौ धन्यो धर्मश्च । धर्मस्य शास्त्रस्योपरि बहुमानो विनयश्च । धन्यस्य तु न तथा । स पण्डितस्तावनुमानविद्यां शिक्षयति । अन्यदा तेन परीक्षार्थ प्रेषितौ छात्रौ। ___ राजमार्गे प्रौढपदानि तौ वीक्षेते । धन्योऽवदत् । इमानि गजस्य पदानि । धर्मेणोक्तं हस्तिन्याः पदानि । सा च वामाक्षिकाणा-इति । पश्चान्नगराद् बहिर्गतौ तौ । तत्र तादृशीमेव हस्तिनीमैक्षेताम् ।
॥ अनुमानपाटवम्॥
द्वितीयो भागः धन्यो धर्मश्च पुनश्चलितौ । क्वापि ग्रामे सरस्तीरे निविष्टावेकया वृद्धया पृष्टौ । मम पुत्रो देशान्तरं गतः । स कदाऽऽगच्छति-इति। अत्रान्तरे कयाचित्रार्या तोयेन घटो भृतः शीर्षे चारोपितः । घटस्तु पतितो भग्नश्च । एतत्ताभ्यां दृष्टम् । धन्येनोक्तम-भदे । विनष्टो हि तव पत्रः-इति । तदा धर्मेणोक्तम्मातः ! शीघ्रं गृहं व्रज समेतस्ते पुत्र इति। स्थविरा गृहं गता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com