________________
प्रथमं गीर्वाणसाहित्यसोपानम् । पुत्रं समेतमपश्यत् । अतः सा हृष्टाऽक्षतपात्रं कुङ्कुमं कुसुमानि पूगीफलादिकमादाय सरोवरमागच्छद् धर्म चावर्धयत् । __ततो द्वावपि गतौ गुरुपाचम् । स्वं स्वं ज्ञानमकथयताम्। द्वयोरपि बुद्धिं गुरुः पर्यैक्षत । अवदच्च वत्सौ यः सबहुमानं गुरुं सेवते तस्य बुद्धिः सम्यक् स्फुरति, नान्यस्यैवेति । बहुमानेन गुरुः सेव्यः।
कामदेवनृपतिकथा]
१८ ॥ नृपमूषकयोः कथा ॥ समर्थेनापि संताप्योऽसमर्थोपि हि न क्वचित् । भूपतिर्व्याकुलो जातो दुर्बलैरपि मूषकैः ॥
एको मूषकः कस्यापि नृपस्य वस्त्रपेटापावे भ्राम्यति । स नृपेण कम्बया ताडितः । ततो मूषको नष्टोऽन्यमूषकैः सहागतः । तैः कोपात् कोशस्थाः सर्वाश्चर्मरज्जवो भक्षिताः। प्रथमपृष्टौ गजबन्धस्यापि रज्जवो भक्षिताः । ततो गजा वृष्टिसिक्तायाः पृथिव्या गन्धेनोन्मत्ता अभवन् । तैः प्रतोल्यादि पातितम् । एतेन वृत्तान्तेन नृपो व्याकुलो जातः ।
[ कामदेवनृपतिकथा]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com