________________
१६
प्रथमं गीर्वाणसाहित्य सोपानम् ।
१९ ॥ गजेन्द्रमोक्षः ॥
आसीत् त्रिकूटो नाम विश्रुतो गिरिः । तस्मिन्सुविपुलः स्वादुसलिलयुक्तः कासार आसीत् । तस्य नीरे सहस्रशो गजा नित्यं स्वच्छन्देन विहर्तुमागच्छन्ति स्म । एकदा तेषामन्यतमः कोऽपि वारणः सरोवरजले विहरति स्म । तदा सहसाऽन्तर्निगूढो नक्रश्चरणे कुञ्जरपतिं गृहीत्वाऽकर्षत् । ततस्तमातुरं द्विपं तोयादुतारयितुं भृशमयतन्त ते सर्वेऽपि किन्तु तत्सर्वं निष्फलं जातम् । अथ स मातङ्गो बुद्ध्या चित्तं समाधाय परमेशस्य स्तुतिमारभत । मतङ्गजेन प्रार्थितो हरिस्तत्राविरासीत् । ततः स चक्रपाणिर्वासुदेव: कृपया द्विरदं वीक्ष्य सग्राहं कासारादुदहरदमोचयच्च सङ्कटात् । इदं गजेन्द्रमोक्षं नामाख्यानं भागवते प्रसिद्धम् ।
२०
॥ ध्रुवाख्यानम् ॥ प्रथमो भागः
पुरा किल मनोर्वशे नृपतिरुत्तानपादो नामासीत् । तस्य सुनीतिः सुरुचिचेति द्वे भार्ये आस्ताम् । सुरुचिर्नृपस्यातीव वल्लभा किन्तु सुनीत्यां भूपतेर्नासीत् प्रीतिः । एकदा सुरुचेः पुत्रमुत्तमं नाम नरपतिर्लालयति स्म । तदा तद् दृष्ट्वा सुनीत्यास्तनयो ध्रुवोऽपि निजतातस्याङ्कमारोदुमैच्छत् । तद् वीक्ष्य सुरुचिरीर्ष्यया ध्रुवमवदत् 'वत्स ! भूपस्य तव पितुरङ्कारोहण नार्हसि यतो न जातोऽसि त्वं मम कुक्षौ । यदि पार्थिवस्याङ्कमिच्छसि परमेश्वरमाराध्य तस्यानुग्रहेण मम गर्भे सम्भव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com