________________
प्रथमं गीर्वाणसाहित्यसोपानम् । हे नरेन्द्र ! श्रीशीलरत्नसूरीणां विप्रसुतौ द्वौ शिष्यावभवताम्। लघुः प्राज्ञ इति लोकप्रशंसां ज्येष्ठो नासहत । प्रद्वेषात् तेन लघोः पाठेष्वन्तराया अक्रियन्त । स ज्येष्ठस्तव कुमारः। पूर्वमुपार्जिताज् ज्ञानस्यावरणीयात् कर्मबन्धादेवं स क्लेशं प्राप्त इति ।
अथ कुमारः पूर्वपापान्यालोच्य प्रायश्चित्तेन शुद्धो भवति । क्लेशश्च तस्य नश्यति ॥
[कामदेवनृपतिकथा]
॥ वानरचापलम् ॥ कस्यचिन्नृपस्यैको वानरो भक्त्या युक्तोऽङ्गसेवकः परं विश्वासस्य स्थानमभवत् । एकदा नृपतेन्द्रिां गतस्य वानरो व्यजनं नीत्वा वायु प्रचालयति स्म । तदा तस्य नृपस्य वक्षःस्थलस्योपरि मक्षिकैकोपविष्टा । अथ व्यजनेन स कपिस्तां निवारयति । सा च पुनः पुनस्तत्रैवोपविशति । ततस्तेन स्वभावचपलेन मूर्खेण प्लवंगमेन तीक्ष्णमसिं गृहीत्वा तस्या उपरि प्रहारः कृतः । ततो मक्षिकोडीय गता । परं नृपस्य हृदयं द्विधा भिन्नम् । मृतश्च नृपः।
[पञ्चतन्त्रम् ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com