________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
॥ प्रद्वेषफलम् ॥
प्रथमो भागः मथुरायां हेमाङ्गदो नृपो लीलावती राज्ञी । तयोरत्यन्तवल्लभो मकरध्वजः पुत्रः । स पञ्चवर्षीयः पितृभ्यां लेखशालायां मुक्तो यथा यथा पठति तथा तथा रोगैस्यते । तेन नवीनं पठनं न संचरति, पूर्वपठितं च विस्मरति । एवं बाल्यमतिकाम्यति यौवनं च समागच्छति । यदा गोष्ठीनिमित्तं पण्डितानां सभायां निवसति तदा जिह्वाया रोगेण भिन्नस्वरत्वात् सभ्यानामनिष्टो भवतीति रोगशान्त्यर्थमुपचाराः कृताः । किन्तु तैरधिकं क्षीयते शरीरम् । अतो महाकष्टे पतितो मृत्यु वाञ्छति कुमारः । तेन पित्रोरपि महादुःखम् ।
॥ प्रद्वेषफलम् ॥
द्वितीयो भागः अथैकदा सर्वज्ञो मुनिस्तत्रागतः। हेमाङ्गदस्तत्र गच्छति तस्स देशनां चाकर्णयति । अथ स नरपतिस्तं सिद्धं पुत्रस्य क्लेशहेतुं पृच्छति । सर्वज्ञो मुनिः कुमारस्य पूर्वभवं वर्णयति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com