SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । ሪ ॥ क्रोधनोपहासः ॥ एकदा कश्विन्नरो बहिः स्थितः स्वगुणानां गृहस्याभ्यन्तरे प्रवृत्तं वर्णनमाकर्णयति स्म । तदाऽन्तः स्थितानां पुरुषाणां मध्ये कश्चिदवदत् । सत्यं सन्त्येव गुणाः प्रभूतास्तस्य किन्तु द्वौ तस्य दोषौ । सोऽतीव साहसयुक्तः परमक्रोधनश्चेति । एवं स्वदोषयोर्वर्णनमाकर्ण्य स बहिः स्थितो नरः सहसैवान्तरविशत् । दोषयोर्वर्णयितुर्गले वस्त्रमवेष्टयत् क्रोधेणावदच्च । रे जाल्म ! किं मे साहसं कश्च क्रोधो मया कृत इति । ततः सर्वे हसन्ति तं च पृच्छन्ति । भद्रमुख ! प्रत्यक्षमेव त्वया क्रोधो दर्शितः साहसं चाविष्कृतं तथापि न मया क्रोधः कृतो नाहं साहसयुक्त इति वदसि कथमिति । " [कथासरित्सागरः ] ।। शिशोराङ्गिरसस्याख्यानम् ॥ शिशुर्वा आङ्गिरसो मन्त्रकर्तॄणां मन्त्रकर्ताऽऽसीत् । स पितॄन् पुत्रका इत्यामन्त्रयत । तं पितरोऽभाषन्त - अधर्मः क्रियते त्वया यो नः पितॄन् पुत्रका इत्यामन्त्रयसे - इति । सोऽवदत् । अहं वाव पिताऽस्मि यो मन्त्रकर्ताऽस्मि । ते देवेष्वपृच्छन् । ते देवा अकथयन् - एष वाव पिता यो मन्त्रकर्ता - इति । एवं स उदजयत् । [ ताण्ड्यमहाब्राह्मणम् ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy