Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 12
________________ प्रथम गीर्वाणसाहित्यसोपानम् । कथमुत्पद्यते धर्मः कथं धर्मो विवर्धते । कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ॥ १३ ॥ सत्येनोत्पद्यते धर्मो दयादानेन वर्धते । क्षमयाऽवस्थाप्यते धर्मः क्रोधलोभाद् विनश्यति ॥ १४॥ [युग्मम्] नास्ति सत्यात् परो धर्मो न सत्याद् विद्यते परम् । न हि तीव्रतरं किश्चिदनृतादिह कथ्यते ॥१५॥ अहिंसा सर्वजीवानां सर्वज्ञः परिभाषिता । इदं हि मूलं धर्मस्वाशेषस्तस्यैव विस्तरः ॥ १६ ॥ सर्वजातिष चाण्डालाः सर्वजातिष ब्राह्मणाः । ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः॥१७॥ एकवर्णमिदं सर्व पूर्वमासीद् युधिष्ठिर । क्रियाकर्मविभागेन चातुर्वर्ण्य व्यवस्थितम् ॥ १८॥ ग्रामे ग्रामे कुटी रम्या निर्झरे निर्झरे जलम् । भिक्षायां सुलभं चान्नं विभवैः किं प्रयोजनम् ॥ १९ ॥ अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम् । रमते न मरालस्य मानसं मानसं विना ॥ २० ॥ सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी। पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥ २२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90