Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 17
________________ प्रथम गीर्वाणसाहित्यसोपानम् । र्थमेतां वादयसीति । अथ स तानुत्तरं यच्छति । सारमेयेन मे दष्टं जानुपरमिदं वृत्तमेकैकस्मै पृच्छकाय कथयितं नास्ति मे शक्तिः। तस्माद् यूयं सर्वेऽपि मया संघटिताः। अधुना सर्वे सममेव बुध्यध्वम्-पश्यत मे जानु सारमेयेन दष्टमिति । ततः स श्रमणस्तेभ्यो भिक्षुभ्यो निजं दष्टं जानु दर्शयति स्म । ततस्ते समग्रा भिक्षवः 'कोऽयमल्पस्य कृते महासंरम्भ ' इति वदन्ति हसन्ति च । __ [कथासरित्सागरः] । धैर्यमाहात्म्यम् ॥ पुरा कश्चिन्मालाधरो नाम ब्राह्मणपुत्रक आसीत् । स प्रतिदिनं यदोवं पश्यति तदा कंचित् सिद्धकुमारकमलोकयति । स सिद्धकुमारक आकाशे लीलया संचरति । अथ तस्य स्पर्धया मालाधरस्तृणमयान्पक्षान् पार्श्वयोराबध्योत्प्लुत्योत्प्लुत्य गगने गतेरभ्यासमशिक्षत । तथापि तस्य श्रमो व्यर्थोऽभवत् । उड्डयनं गगने कर्तुं समर्थो नाभवत् । तथापि स प्रयत्नं नामुश्चत् । अथ स सिद्धकुमारो मालाधरं वृथा प्रयत्ने क्लान्तमपश्यदचिन्तयच्च । धन्योऽयं बालकः। धैर्ययुक्तः श्राम्यति दिने दिने । तदयं ममानुकम्पामर्हति । उड्डयने यच्छाम्येतस्मै शक्तिम् । इति विचार्य तेन सिद्धकुमारकेण मालाधरः स्वस्थानुचरः कृतः। ततस्तस्योड्डयने शक्तिरपि संजाता। एवं धैर्येण देवता अपि तुष्यन्ति । कथासरित्सागरः] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90