Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 15
________________ प्रथम गीर्वाणसाहित्यसोपानम् । ॥धेनुमूर्खकथा॥ कस्यचिन्नरस्यैका धेनुरासीत् । सा च प्रतिदिनं शतपलं दुग्धं यच्छति । अथ कदाचित्तस्य गृहे समायात उत्सवः । तदोत्सवकाल एवास्याः प्राज्यं दुग्धमेकवारमेव मया लभ्यमिति स मुग्धो दोहनं विनैव तां गृहे स्थापयति स्म । अथोत्सवसमये स तस्या दोहनमारभते स । किन्तु चिरकालपर्यन्तं दोहनस्याभावात्तस्या सर्वमेव दुग्धं छिन्नम् । लोकाश्च तस्य मूर्खतां हसन्ति म॥ [कथासरित्सागरः] । तृषितस्य जडस्य कथा ॥ कश्चिन्मूर्खः पथिकोऽरण्यस्य कस्यचित् पारं गत्वा नदी पश्यति । किन्तु तृपया व्याकुलोऽपि स तस्या जलं न पिबति । तदा जनास्तं पृच्छन्ति-भोः किमर्थ नद्याः सलिलंन पिबसीति । स वदति बुद्धिहीन इयजलं नद्याः कथं पिबामीति। अथ ते जनास्तं परिहासेन पृच्छन्ति - नद्याः सर्व वारि न पिबसि चेन्नृपस्त्वां दण्डयति किमिति । एवं तैरुपहसितोऽपि स मुग्धो नीरं नापिबत् तथैवातिष्ठच्च ॥ [कथासरित्सागरः] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90