________________
प्रथम गीर्वाणसाहित्यसोपानम् ।
॥धेनुमूर्खकथा॥ कस्यचिन्नरस्यैका धेनुरासीत् । सा च प्रतिदिनं शतपलं दुग्धं यच्छति । अथ कदाचित्तस्य गृहे समायात उत्सवः । तदोत्सवकाल एवास्याः प्राज्यं दुग्धमेकवारमेव मया लभ्यमिति स मुग्धो दोहनं विनैव तां गृहे स्थापयति स्म । अथोत्सवसमये स तस्या दोहनमारभते स । किन्तु चिरकालपर्यन्तं दोहनस्याभावात्तस्या सर्वमेव दुग्धं छिन्नम् । लोकाश्च तस्य मूर्खतां हसन्ति म॥
[कथासरित्सागरः]
। तृषितस्य जडस्य कथा ॥ कश्चिन्मूर्खः पथिकोऽरण्यस्य कस्यचित् पारं गत्वा नदी पश्यति । किन्तु तृपया व्याकुलोऽपि स तस्या जलं न पिबति । तदा जनास्तं पृच्छन्ति-भोः किमर्थ नद्याः सलिलंन पिबसीति । स वदति बुद्धिहीन इयजलं नद्याः कथं पिबामीति। अथ ते जनास्तं परिहासेन पृच्छन्ति - नद्याः सर्व वारि न पिबसि चेन्नृपस्त्वां दण्डयति किमिति । एवं तैरुपहसितोऽपि स मुग्धो नीरं नापिबत् तथैवातिष्ठच्च ॥
[कथासरित्सागरः]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com