________________
प्रथमं गीर्वाणसाहित्यसोपानम् ।
॥विनयमाहात्म्यम् ॥ पुरा किल कोऽपि नरपतिराकर्षणविद्याया ज्ञानमिच्छति । स च तज्ज्ञं मातङ्गमाह्वयति । स्वयं सिंहासने निविशति मातङ्गमय ऊर्ध्व संस्थापयति खड्गं चाकर्षति । पश्चात्तं मातङ्ग विद्यां पृच्छति । मातङ्गश्च भीतो वदति परं नृपस्य विद्या न स्फुरति । ततोऽमात्यो वदति-'देव विनयं विना विद्या न स्फुरति' इति।
अथ महीशो मातङ्गमासने स्वकीये निवेशयति । स्वयं चाग्रे योजिताञ्जलिर्विद्यामायच्छति। ततश्च विद्या स्फुरति ॥
__[कामदेवनृपतिकथा]
॥मुग्धश्रमणकथा ॥ कश्चिच्छ्मणः क्वापि विहारे वसति स्म । स एकदा रथ्या. यामटति । तदा कश्चित्सारमेयस्तं जानुनि दशति । अथ कुक्कुरेण दष्टः स विहारमागच्छति चिन्तयति च । तव जानुनि किं वृत्तमिति सर्जनैः पृष्टोऽहमेकैकशः सर्वेभ्योऽपि कथयितुमिमं वृत्तान्तं न समर्थोऽस्मि । तस्मादयमेवोपायः सर्वान्सकृद् बोधयितुम् । इत्यालोच्य स मूढो विहारस्योपरि द्रुतमारुह्य गृहीत्वा घण्टामवादयत् । अकारणेऽकाले च किमर्थमयमिमां
मिलिता भिक्षवस्तमाश्चर्येण पृच्छन्ति । भोः किम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com