Book Title: Prathamam Girvan Sahitya Sopanam
Author(s): Ramchandra B Athavale, Rasiklal C Parikh
Publisher: S B Shah Co

View full book text
Previous | Next

Page 16
________________ प्रथमं गीर्वाणसाहित्यसोपानम् । ॥विनयमाहात्म्यम् ॥ पुरा किल कोऽपि नरपतिराकर्षणविद्याया ज्ञानमिच्छति । स च तज्ज्ञं मातङ्गमाह्वयति । स्वयं सिंहासने निविशति मातङ्गमय ऊर्ध्व संस्थापयति खड्गं चाकर्षति । पश्चात्तं मातङ्ग विद्यां पृच्छति । मातङ्गश्च भीतो वदति परं नृपस्य विद्या न स्फुरति । ततोऽमात्यो वदति-'देव विनयं विना विद्या न स्फुरति' इति। अथ महीशो मातङ्गमासने स्वकीये निवेशयति । स्वयं चाग्रे योजिताञ्जलिर्विद्यामायच्छति। ततश्च विद्या स्फुरति ॥ __[कामदेवनृपतिकथा] ॥मुग्धश्रमणकथा ॥ कश्चिच्छ्मणः क्वापि विहारे वसति स्म । स एकदा रथ्या. यामटति । तदा कश्चित्सारमेयस्तं जानुनि दशति । अथ कुक्कुरेण दष्टः स विहारमागच्छति चिन्तयति च । तव जानुनि किं वृत्तमिति सर्जनैः पृष्टोऽहमेकैकशः सर्वेभ्योऽपि कथयितुमिमं वृत्तान्तं न समर्थोऽस्मि । तस्मादयमेवोपायः सर्वान्सकृद् बोधयितुम् । इत्यालोच्य स मूढो विहारस्योपरि द्रुतमारुह्य गृहीत्वा घण्टामवादयत् । अकारणेऽकाले च किमर्थमयमिमां मिलिता भिक्षवस्तमाश्चर्येण पृच्छन्ति । भोः किम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90