Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 38
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । " जो जाणदि अरहंते, दवत्त-गुणत्त-पज्जवत्तेहिं । सो जाणदि अप्पाणं, मोहो खलु जादि तस्स लयं " ॥ १॥ [ ] इति । ननु तथाऽप्येतदनुध्यानं न मङ्गलम् , स्वापकर्षावधिकोत्कर्षप्रतियोगित्वेन नमस्कार्यज्ञानस्यैव नमस्काररूपमङ्गलत्वात् , ध्यानस्य चोत्कर्षानवगाहित्वादिति चेत् ? न- ध्यानस्यान्तरङ्गतपोभेदत्वेन भावमङ्गलत्वात् , स्मरन्ति हि परमगुरुवः-" धम्मो मङ्गलमुक्किटं० "ति [ दशवैकालिक०, अ० १, गाथा० १ ] । ननु तथाऽप्यत्र निर्जरामात्रोद्देशेन प्रवृत्तिः स्यात्, न तु विघ्नविघातोदेशेनेति कथमभीष्टफलसिद्धिरिति चेत् ? न- सामान्योद्देशेन प्रवृत्तावपि विशेषहेत्वन्तर्भावेन विशेषफलसिद्धेरप्रत्यू. हत्वात् , इष्यते हि मोक्षार्थं विहितमपि चरित्रं सरागत्वादिहेत्वन्तर्भावेन स्वर्गफलकम् , तत्राऽऽदिफलं सामान्यं निर्जरामात्रम् , तद्विशेषश्च स्वर्गप्रापकः क्लिष्टकर्मविगम इति दिक् । सुधियां परिणतनयव्यु उक्कार्थे दिक्पटवचनसंवादमुपदर्शयति- तदुक्तमिति-श्वेताम्बर-दिगम्बरयोः केवलिकवलाहार- स्त्रीमुक्त्यादौ परस्परविरुद्धाभ्युपगन्तृत्वेऽपि स्याद्वाद- सप्तभनयाद्यभ्युपगमस्य समानत्वात् समानतान्त्रिकत्वं बोध्यम् । जो जाणदि० इति“यो जानाति अर्हतो द्रव्यत्व- गुणत्व- पर्यवत्वैः । स जानात्यात्मानं मोहः खलु याति तस्य लयम्" ॥ इति संस्कृतम् ॥ ननु स्वावधिकोत्कृष्टत्वप्रकारकनमस्कार्यविशेष्यकज्ञानानुकूलव्यापारस्य द्रव्यमङ्गलत्वम् , तादृशज्ञानस्य च भावमङ्गलत्वम् , प्रकृते चाऽऽत्मानुध्याने स्वस्याश्कर्षस्तदवधिको नमस्कार्यस्योत्कर्षश्च न भासत इति न तस्य नमस्कारलक्षणमङ्गलत्वमिति शङ्कते-नन्विति । तथाऽपि आत्माऽनुध्यानस्य परमात्मसमापत्तिफलकत्वेऽपि, आत्मानुध्याने तत्कारणतया परमात्मानुध्यानस्यावश्यम्भावित्वेऽपि वा । एतदनुध्यानम् आत्मानुध्यानम् । आत्मानुध्यानस्य नमस्कारात्मकमङ्गलवाभावेऽपि अन्तरङ्गतपोविशेषरूपत्वेन भावमङ्गलत्वं सम्भवत्यैवेति समाधत्ते-नेति । अन्तरङ्गतपोविशेषस्य ध्यानस्य मालत्वे आगमवाक्यं प्रमाणयति-स्मरन्तीति- प्रवाहतोऽनादिसिद्धस्यागमस्यापूर्वत्वाभावान्न करणम् , किन्तु पूर्वपूर्वसिद्धस्य तस्य स्मरणमेव तीर्थङ्करैः क्रियत इत्यागमस्य सर्वप्रमाणज्येष्ठत्वख्यापनाय 'स्मरन्ति' इत्युक्तम् । धम्मो० इति- अत्र 'अहिंसा संजमो तवो। देवा वि तं नमसति, जस्स धम्मे सया मणो" ॥ इति गाथाशेषः । “धर्मो मङ्गलमुत्कृष्टमहिंसा संयमस्तपः । देवा अपि तं नमस्यन्ति यस्य धर्मे सदा मनः"॥ इति संस्कृतम्। ननु भवत्वभ्यन्तरतपोविशेषरूपस्याऽऽत्मानुध्यानस्य भावमङ्गलत्वम् , परमेतत्कर्मनिर्जरोद्देशेनैव विधीयते, न तु विघ्नविधातोद्देशेन, अभिमतं च ग्रन्थकर्तुर्विघ्नविघात एव मङ्गलफलम् , तस्यात्मानुध्यानलक्षणभावमङ्गलेनासंपादनान्न युक्तं विघ्नविधातोद्देशेन कर्तव्ये मङ्गलेऽस्य विधानमिति शङ्कते-नन्विति । तथाऽपि आत्मानुध्यानस्य भावमङ्गलत्वेऽपि । अत्र आत्मानुध्याने । यद्यपि भावमङ्गलस्यात्मानुध्यानस्य निर्जरामात्रोद्देशेन प्रवृत्तिविषयत्वान्निर्जरामात्रफलकत्वं तथाऽपि निर्जरणीयकर्मसमष्टौ समाप्तिप्रतिबन्धकदुरितविशेषलक्षणकर्मणोऽप्यन्तर्भूतत्वात् तन्नाशकविशेषसहकारिसमवधानतस्तन्नाशस्यापि सम्भवेन विघ्नविधातलक्षणविशेषफलस्याऽपि निर्जरामात्रसामान्यफलकात्मानुध्यानतः सम्भवात् , दृष्टं च मौक्षार्थविहितचरित्रान्मोक्षमात्रफलकात् सरागत्वादिलक्षणस्वर्गकारणसहकारिविशेषसमवहितात् स्वर्गकारणीभूतस्वर्गप्रतिबन्धकर्मविशेषविगमद्वारा स्वर्गफलमिति समाधत्ते-नेति । सामान्योद्देशेन निर्जरामात्रोद्देशेन । प्रवृत्तावपि आत्मानुध्याने प्रवृत्तावपि । विशेषहेत्वन्तर्भावेन 'आत्मानुध्यानतः समाप्तिप्रतिबन्धकदुरितविशेषो मे निवर्तताम्' इतीच्छालक्षणविशेषहेत्वन्तर्भावेन । तत्र मोक्षार्थविहितचरित्रस्थले । आदिफलं प्रथमफलम् । तद्विशेषश्च निर्जराविशेषश्च । गुरुनमस्कारस्य मङ्गलत्वे न कस्यापि विप्रतिपत्तिरतो 'नत्वा गुरुपदाम्बुजम्' इत्यत्र न किमपि चर्चितम् , शब्दार्थस्य स्पष्टत्वान्न विवरणम् । जैननयतत्त्वानभिज्ञा अपि न्यायादिशास्त्रनिष्णाताः सुधियः, तेषां नयोपदेशो नयतत्त्वावगतये एवाधीतः सन् स्यात् , न तु विनोदायातः 'सुधियाम्' इत्यस्य विवरणम्- परिणतनयव्युत्पत्तिशालिनामिति-परिणता- सम्यग् नयप्रतिपादकशास्त्राभ्यासेन परिनिष्ठिता, या, नयव्युत्पत्तिः- 'अयं नय एतदर्थावगाहनकुशलः, अयं पुनरेतदर्थनिर्णयप्रवीणः' इत्येवं विवेकेन नयस्वरूपाव

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 ... 496