Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ वाचकानांप्रतिभावः Dr. M. R. Dwivedi M.A. (Sanskrit), B.A.M.S Nandapur पू. श्रीविजयशीलचन्द्रसूरिवर्याः, सप्रेम नमो नमः । अष्टादश्यां शाखायां "अहो मातृत्वम्" सत्यघटनैषा नितरामरोचत मह्यम् । "उत्तम शासनम्" कथेयमपि अतीव बोधप्रदा आसीत् । अस्याः पठनेन महाभारतस्य श्लोकोऽयं स्मृतिपथमायाति । कालो वा कारणं राज्ञो राजा वा कालकारणम् । इति ते संशयो मा भूद् राजा कालस्य कारणम् ॥ यथा राजा तथा प्रजा । राज्ञः मनसि ये ये विचाराः आयान्ति तेषां प्रभावः प्रजायाः मानसोपरि भवत्येव इति सत्यं सुचारुरूपेण विशदीकृतमस्ति अत्र । धन्यवादाः । वाचकानांप्रतिभावः डा. रूपनारायणपाण्डेयः प्रयागः सप्तदशं नन्दनवनकल्पतरूं सम्प्राप्य प्रसीदामि । प्रास्ताविकं नितरां तथ्यमूलकमस्ति । भारतीयानां धर्मसहिष्णुतां विज्ञाय इतरधर्मावलम्बिनोऽत्राऽऽगत्य दीनान् दरिद्रान् च किमपि धनं दत्त्वा, सेवां वा कृत्वा तान् स्वधर्मे निवेशयन्ति । इत्थं ते दीनान् अशिक्षितान् च स्वधर्मात् पृथक्कुर्वन्ति । नीतिरेषा सर्वथा निन्दनीयाऽस्ति । अत्राऽस्माकमपि कश्चिद् दोषोऽस्ति । वयं स्वधर्मस्य दीनान् दरिद्धान् पीडितान् च न संरक्षामः । अस्माकं तान् प्रति साहाय्याभावोऽपि कोऽपि हेतुः । अस्माभिः सम्भूय धर्मान्तरणप्रवृत्तिनिरोद्धव्या । यथा भगवता रामेण वनवासिनो वानरा निषादादयश्च प्रेम्णा समालिङ्गिताः, तथाऽस्माभिरप्येते प्रेम्णा सौहार्देन च सम्माननीयाः संरक्षणीयाश्च । श्रीमुनिकल्याणकीर्तिविजय-मुनिधर्मकीर्तिविजय-राजेन्द्रमिश्रप्रभृतीनां रचना नितरामभिनन्द्यसत्त्वाः । पत्रिकेयं पाठकान् न केवलं नन्दयति, अपि तु समाजं सन्मार्गमप्युपदिशति, सुरभारतीसाहित्यमपि च संवर्धयति । जयतु संस्कृतं संस्कृतिश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 138