Book Title: Nandanvan Kalpataru 2007 00 SrNo 19 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ वाचकानां प्रतिभावः डॉ. वासुदेव वि. पाठक 'वागर्थ' ३४, सरस्वतीनगर, आंबावाडी, D अमदावाद-१५ मान्याः सङ्कलनकर्तारः मुनयः, "नन्दनवनकल्पतरुः" सादरं प्रणतयः । ह्यः एव प्राप्तः अष्टादशतमोऽङ्कः । प्रीत्या पठितः । निर्व्याजतया र वाच्यं यत् सामयिकस्याऽस्य पठनेन, रुचिरं रोचकं रम्यं सारस्वतं च सारदम् । समेष्वङ्केषु सत्तत्त्वं प्राप्यते सत्प्रसन्नता ।। नन्दनवनकल्पतरोश्छाया, सद्गुरुचरणैश्च मुदा पुष्टा । नन्दयति नितान्तमहो पुण्या, मादयति मनोहरता मिष्टा ।। सम्मेलनं संस्कृतसेवकानां, गीर्वाणवाणीरतसज्जनानाम् । गुरोः कृपालब्धसुधासमृद्धा, कीर्तित्रयी साधयतीति धन्यम् ।।अस्तु ॥ अङ्कस्य प्रास्ताविके, राज्यधर्मरूपं प्रथमं कार्यं शिक्षणमिति सत्यं सूचितम्। 'सेल्फफायनान्स'- युक्त्या सर्वकारेण तदेव वर्ण्यते इति कारुण्यम्; पतनस्य प्रारम्भः । यावदस्माकं पाठशालापद्धतिः प्रवर्तते स्म, गुरुशिष्यपरम्परा च यावद् ॥ ऋद्धाऽऽसीत्, तावत् शिक्षणे सत्त्वमासीत् । विदेशीयैस्तद् विचार्यैव सा विनाशिता, स्वशासनं स्थापयितुम् । अधुना, अस्मदीया एव, शिक्षणस्य व्यापारे व्यस्ता विवेकविनाशिनः विषसिञ्चकाश्च जाताः । विना विवेकं स्वातन्त्र्यं स्वच्छन्दत्वेन वर्धते । स्वच्छन्दत्वेन सत्त्वस्य नाशश्च सर्वनाशकः ॥ "भवति विनिपातः शतमुखः" ॥ भवद्भिः समीचीना कृतैषा चर्चा, शासकानां, समाजस्य च कृते, वैचारिकेऽपि फलके स्यात् तथाऽपि श्रेयस्साधकम् ॥ अस्तु शिवम् ॥ सम्पूज्यैः आचार्यवर्यैः विजयशीलचन्द्रसूरीश्वरैः श्रीवर्धमानजिनस्तवनस्य कृतः गीतानुवादः सुखयति । प्रणम्यन्ते पूज्याः एतदर्थम् । एतादृशानां गीतानां स्वरनियोजनं करणीयं, प्रचार: प्रसारश्च कार्यः ॥ लेखकानां सम्पर्कसङ्केतः सम्पादकानामुदारत्वं सूचयति । एतदर्थं धन्यवादाः ॥ D . Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 138