Book Title: Naishadhiya Charitam 01
Author(s): Mohandev Pant
Publisher: Motilal Banarsidass
View full book text
________________ नैषधीयचरिते टीका-रयस्य = वेगस्य स्मये - अभिमाने | 10 तत्पु० ) प्रसमम् = बलात् यथा स्यात, तथा वितस्य = पूर्वमेव पराभूतस्य गरुत्मतः= रुडस्य मुखा. मुखे वक्त्रे अनुषकारग्ना ( स० तरपु.) आयतादीर्घा वक्षगुः मनोहरा च या वलगा प्रग्रहः मुखरज्जुरित्यर्थः ( सर्वत्र कर्मधा० ) द्विजिह्व-वे जिह्वे येषां ते ( बं० वी० ) द्विजिह्वाः सा तेषाम् अभ्यवहारः भक्षणम् (ष० तत्पु०) अस्मिन् यत् पौरुषं पुरुषकारः विक्रम इति यावत् तस्मिन् / स० तत्पु०) अपि प्रतिगतो मल्लः प्रतिमत्तः ( प्रादि तत्पु० ) तस्य मावः तत्ता ताम् प्रतिस्पर्षिताम् अपेयिवांसम् प्राप्तवन्तम् ( हयम् ) / ' पूर्व वेगामिमाने बलात् गरुडं पराभूयेदानी समक्षण-कायेंऽपि हयरतं जितवानिति भावः / / 63 / / .. व्याकरण-स्मयः स्मि+अच् मावे। गरुन्मतः गरतः पक्षः अस्य सन्तीति गरुत् + मतुप् इति गरुन्मान् तस्य, अपदान्त होने के कारण 'त्' को 'द्' नहीं हुआ। अनुषक्त अनु+ सं+क्त कर्तरि, अनु उपसर्ग पूर्व में होने से 'स्' को '' / प्रायन आ+/यम् + क्त कर्तरि / साम्यवहारः अभि+ +VE+घञ् भावे / ध्यान रहे कि./ह धातु से अभि और अब इन दो सस के लगने से 'खाना' अर्थ हो जाता है। पौरुषम् पुरुषस्य भाव इति पुरुष+मण भावे / पेयिवासम्-उप+Vs+बसु (लिट् के अर्थ में उपेयिवान् तम् ) / हिन्दी-जो (घोडा) वेग के अभिमान में ( पहले ही ) परास्त किये हुए गरुड़ के सोपों को माने की बहादुरी में मो ( अब ) मुख में लगी हुई लम्बी और सुन्दर लगाम ( के व्याज ) से (मानो) पतिस्पर्धा कर रहा था // 63 / / टिप्पणी=स श्लोक में यद्यपि न अपह्नुति का और न उत्प्रेक्षा का वाचक शब्द है, तथापि मन्वोत्प्रेक्षा के साथ गम्य ( आर्थ ) अपह्नति का संकर है। 'वल्गु' 'वल्ग' में छेकानुपास है // 63 // स सिन्धुजं शीतमहसहोदरं हरन्तमुच्चैःश्रवसः श्रियं हयम् / जिताखिलक्ष्माभृदनल्पलोचनस्तमारोह क्षितिपाकशासनः // 14 // अन्वय-जिताखिल-क्ष्माभृत् अनल्प-लोचनः स क्षिति-पाकशासनः सिन्धुजम् शीतमहस्सहोदरम् उच्चैः अवसः श्रियम् हरन्तम् तम् हयम् आरुरोह / टीका-जिताः परास्ताः अखिलाः सर्वे क्ष्माभृतः- राजानः ( कर्मधा०) येन तयाभूतः 1.बी.) अथ च जिता अखिलाः धमाभृतः पर्वता येन सः इन्द्रप्प हि स्व-वज्रेण पर्वतानां साः छिन्ना आप्तन् इति पुराण वार्ता, अनरूपे = आयते लोचने = नेत्रे अन्यत्र अनल्पानि पनि सहस्रमिति यावत् लोचनानि यस्य सः (ब० वी० ) स नलः क्षितेः पृथिव्याः= पाकशासनः इन्द्रः ( इन्द्रो मरुत्वान् मघवा विडोजाः पाकशासनः, इत्यमरः ) सिन्धुषु जायते इति सिन्धुजम् = ( उपपद तत्पु०) सिन्धुदेशोद्भवमित्यर्थ: अथ च सिन्धोः = समुद्रात जायते इति उच्चैःश्रवा हि मन्थनसमये समुद्रादुर्भूतः शीत० = शीतं महः तेजो रश्मय इति यावत् यस्य तथा मूतस्य ( व० वी० ) चन्द्रस्य सहोदरम् = सदृशम् अथ च सोदरभ्रातरम् उच्चैःश्रवसः = इन्द्रास्वरूप श्रियम् कान्तिम् हरन्तम् चोरयन्तम् तत्समानमित्यर्थः तम् भृत्यः मानीतम् हयम् = अश्वम् बालरोह %आरूढवान् / / 64 / /

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164