Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1398
________________ Vaasa शेष संस्थान संहननविहायोगतीनां तीर्थकरनाम्ना सह बन्धायोगात् । एवं चाभिलाप्या- मनुष्यद्विक मौदारिकद्विकं पञ्चेन्द्रियजातिस्तैजसकार्मणे आद्यसंहननमाद्य संस्थानं वर्णादिचतुष्टयमगुरुलघु पराघातोपघातोच्छ्वासनामानि प्रशस्तविहायोगतिखसचतुष्कं स्थिरास्थिरयोरेकतरं शुभाशुभयेोरेकतरं सुभगं सुखरमादेयं यशः कीर्त्त्य यशः कीच्योरेकतरा तीर्थकरनाम निर्माणमिति । एनां च त्रिंशतं देवा नारका वा सम्यग्दृष्टयो मनुष्यगतिप्रायोग्यं बघ्नतो बध्नन्ति । अत्र स्थिरास्थिरशुभाशुभयशः कीर्त्त्ययशः कीर्त्तिभिरष्टौ भङ्गाः । सर्वसंख्यया मनुष्यगतिप्रायोग्यबन्धस्थानेषु भङ्गाः सप्तदशोत्तरषट्चत्वारिंशच्छतानि ४६१७ । नरकगतिप्रायोग्यं बध्नतोऽष्टाविंशतिरेकमेव बन्धस्थानं, सा चेयं-नरकद्विकं पञ्चेन्द्रियजातिर्वैक्रियद्विकं तैजसकार्मणे हुण्डं वर्णचतुकमगुरुलधूपघातं पराघातमुच्छ्रासं कुखगतिस्त्रसचतुष्कम स्थिरपट्कं निर्माणं चेति, एतदष्टाविंशतिप्रकृत्यात्मकं बन्धस्थानं मिथ्यादृष्टेरवसेयम् । अत्र सर्वासामशुभत्वादेक एव भङ्गः । अथ देवगतिप्रायोग्याणि बन्धस्थानान्युच्यन्ते तानि चाष्टाविंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारि तत्राष्टाविंशतिरियंदेवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिवैक्रियद्विकं तैजसकार्मणे समचतुरस्रं वर्णचतुष्कं अगुरुलधूपघातपराघातोच्छ्वासनामानि प्रशस्तविहायोगतिस्त्रसचतुष्कं स्थिरा स्थिरयो रेकतरं शुभाशुभयेोरेकतरं सुभगत्रिकं यशः कीर्त्त्ययशः कीत्योरेकतरा निर्माणं चेति । एतच्च बन्धस्थानं मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशसर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम् । अत्र स्थिरास्थिर शुभाशुभयशः कीर्त्त्ययशःकीर्त्तिभिरष्टौ भङ्गाः । एषैव जिननामसहितैकोनत्रिंशत्, अत्रापि ते एवाष्टौ भङ्गाः, नवरमेतद्बन्धस्थानं देवगतिप्रायोग्यं बध्नतामविरतसम्यग्दृष्टादीनामवसेयम् । त्रिंशत्पुनरियं देवद्विकं पञ्चेन्द्रियजातिर्वैक्रियद्विकमाहारकद्विकं तैज सकार्मणे समचतुरस्रं वर्णचतुष्टयमगुरुलघु

Loading...

Page Navigation
1 ... 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490