Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1469
________________ कर्मप्रकृतिः ॥१५४॥ जीवस्थानेषु वन्धादि| स्थानानि DSSDIRAKSERIODA मुदयसत्ते, उपशान्तमोहे सप्तानामुदयोऽष्टानां सत्ता । क्षीगमोहे सप्तानामेवोदयः सत्ता च । सयोगिकेवलिनोश्चतुर्णामुदयसत्ते । तथा षष्ठं गुणस्थानं यावत्सप्तानामष्टानां वोदीरणा । तत्र यदायुः पर्यन्तावलिकाप्राप्तं भवति तदा तस्योदीरणाऽभावात्सप्तानामुदीरणा, शेषकालं त्वष्टानाम् । मिश्रगुणस्थाने तु सदैवाष्टानामेव, आयुःपर्यन्तावलिकायां वर्तमानस्य मिश्रगुणस्थानासंभवात् । अप्रमत्तापूर्वकरणानिवृत्तिवादरेषु वेदनीयायुर्वर्जानां पण्णामुदीरणा, तेषु वेदनीयायुषोरुदीरणाभावात् तद्योग्याध्यवसायस्थानासंभवात् । सूक्ष्मसम्पराये पण्णां पश्चानां वोदीरणा, तत्र प्रथमतः पण्णां, सा च तावद्यावदावलिका गुणस्थानस्य शेषा न भवति, आवलिकायां तु शेषीभूतायां | मोहनीयमप्यावलिकाप्रविष्टमिति तस्योदीरणाया अभावात्पञ्चानामुदीरणा । एतेषामेव पञ्चानामुपशान्तमोहेऽपि । क्षीणमोहे पश्चानां | तावदुदीरणा यावत्स्वावलिका शेषा न भवति । आवलिकायां तु शेषीभूतायां ज्ञानावरणदर्शनावरणान्तरायाणामप्यावलिकाप्रविष्टत्वेनोदीरणाया अभावात् द्वयोर्नामगोत्रयोरुदीरणा । सयोगिकेवलिन्यपि तयोरेव द्वयोरुदीरणा । अयोगी तु योगाभावादेव न किंचिदुदीरयति । एकद्वित्रिचतुरिन्द्रियाणां कायद्वारे स्थावरकायानां सप्तानामष्टानां वा बन्धोदीरणे, अष्टानामुदयसत्ते । तथा योगद्वारे मनोयोगिनो वीतरागच्छद्मस्थपर्यवसाना इब वेदितव्याः, मनोयोगिनां क्षीणमोहगुणस्थानक. यावत्संभवात् । काययोगिनो वाग्योगिनश्च | सयोगिकेवलिपर्यन्ता इव द्रष्टव्याः, काययोगवाग्योगयोः सयोगिकेवलिगुणस्थानं यावत्संभवात् । वेदद्वारे त्रिवेदाः, कपायद्वारे त्रिकपाया नवगुणस्थानतुल्याः, वेदत्रयस्य कपायत्रयस्य चानिवृत्तिवादरसम्परायं यावत्संभवात् । लोभे मूक्ष्मसम्परायान्ता इव वाच्याः, लोभस्य सूक्ष्मसम्परायं यावत्संभवात् । ज्ञानद्वारे मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्ट्यादिषु सम्यमिथ्यादृष्टिपर्यन्तेष्विव । मतिश्रुतावधिज्ञानेष्वविरतसम्यग्दृष्टयादिषु क्षीणमोहपर्यन्तेष्विव । मनःपर्यवज्ञाने प्रमत्तसंयतादिषु क्षीणमोहपर्यन्तेष्विव । केवलज्ञाने REKICICERT ॥१५४॥

Loading...

Page Navigation
1 ... 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490