Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
VAGK
भगसुखरादेययशः कीर्त्तिनिर्माणतीर्थकरोच्चगोंत्र रूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्त प्रकृत्यनुभागमध्ये प्रवेशनेनोपहन्यते । समुद्घातमाहात्म्यमेतत् । तस्य चोद्धरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः । पुनरप्येतस्मिन् समयेऽव|शिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्ततमभागं मुञ्चति । अत्रापि प्रशस्तप्रकृत्यनुभाग घातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः । ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य | चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते । प्रशस्त प्रकृत्यनुभागघातश्च पूर्ववदवसेयः । एवं स्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः । चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्ध्या यथाक्रमं संख्येया अनन्ताश्च भागा: क्रियन्ते । ततोऽवकाशान्तरसंहारसमये स्थितेः संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति । एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये समये स्थितिकण्ड कानुभागकण्डकघातनात् । अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहुसैन कालेन विनाशयति । पष्टादिषु च समयेषु कण्डकस्यैकैकं शकलं
aha
Loading... Page Navigation 1 ... 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490